ऋग्वेदसंहिता, पदपाठ · अध्याय 10.162
॥19॥.
-र्व्_8:8।20-
(र्व्_10,162)
ब्रह्मणा । अग्निः । साम्-विदानः । रक्षः-हा । बाधताम् । इतः । अमीवा । यः । ते । गर्भम् । दुः-नामा । योनिम् । आशये
यः । ते । गर्भम् । अमीवा । दुः-नामा । योनिम् । आशये । अग्निः । तम् । ब्रह्मणा । सह । निः । क्रव्य-अदम् । अनीनशत्
यः । ते । हन्ति । पतयन्तम् । नि-सत्स्नुम् । यः । सरीसृपम् । जातम् । यः । ते । जिघांसति । तम् । इतः । नाशयामसि
यः । ते । ऊरू इति । वि-हरति । अन्तरा । दम्पती इतिदम्-पती । शये । योनिम् । यः । अन्तः । आरेळ्हि । तम् । इतः । नाशयामसि
यः । त्वा । भ्राता । पतिः । भूत्वा । जारः । भूत्वा । नि-पद्यते । प्र-जाम् । यः । ते । ज् इघांसति । तम् । इतः । नाशयामसि
यः । त्वा । स्वप्नेन । तमसा । मोहयित्वा । नि-पद्यते । प्र-जाम् । यः । ते । जि घांसति । तम् । इतः । नाशयामसि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0