भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.161

10.161.1

॥18॥.
-र्व्_8:8।19-
(र्व्_10,161)
मुञ्चामि । त्वा । हविषा । जीवनाय । कम् । अज्ञात-यक्ष्मात् । उत । राज-यक्ष्मात् । ग्राहि ः । जग्राह । यदि । वा । एतत् । एनम् । तस्याः । इन्द्राग्नी इति । प्र । मुमुक्तम् । एनम्

10.161.2

यदि । क्षित-आयुः । यदि । वा । पराइतः । यदि । मृत्योः । अन्तिकम् । नि-इतः । एव । तम् । आ । हरामि । निः-ऋतेः । उप-स्थात् । अस्पार्षम् । एनम् । शत-शारदाय

10.161.3

सहस्र-अक्षेण । शत-शारदेन । शत-आयुषा । हविषा । आ । अहार्षम् । एनम् । शतम् । यथा । इमम् । शरदः । नयाति । इन्द्रः । विश्वस्य । दुः-इतस्य । पारम्

10.161.4

शतम् । जीव । शरदः । वर्धमानः । शतम् । हेमन्तान् । शतम् । ओं इति । वसन्तान् । शतम् । इन्द्राग्नी इति । सविता । बृहस्पतिः । शत-आयुषा । हविषा । इमम् । पुनः । दुः

10.161.5

आ । अहार्षम् । त्वा । अविदम् । त्वा । पुनः । आ । अगाः । पुनः-नव । सर्व-अङ्ग । सर्वम् । ते । चक्षुः । सर्वम् । आयुः । च । ते । अविदम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc