भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.163

10.163.1

॥20॥.
-र्व्_8:8।21-
(र्व्_10,163)
अक्षीभ्याम् । ते । नासिकाभ्याम् । कर्णाभ्याम् । छुबुकात् । अधि । यक्ष्मम् । शीर्षण्यम् । मस्तिष्कात् । जिह्वायाः । वि । वृहामि । ते

10.163.2

ग्रीवाभ्यः । ते । उष्णिहाभ्यः । कीकसाभ्यः । अनूक्यात् । यक्ष्मम् । दोषण्यम् । अंसाभ्याम् । बाहु-भ्याम् । वि । वृहामि । ते

10.163.3

आन्त्रेभ्यः । ते । गुदाभ्यः । वनिष्ठोः । हृदयात् । अधि । यक्ष्मम् । मतस्नाभ्याम् । यक्नः । प्लाशि-भ्यः । वि । वृहामि । ते

10.163.4

ऊरु-भ्याम् । ते । अष्ठीवत्-भ्याम् । पार्ष्णि-भ्याम् । प्र-पदाभ्याम् । यक्ष्मम् । श्रोणि-भ्य्म् । भासदात् । भंससः । वि । वृहामि । ते

10.163.5

मेहनात् । वनम्-करणात् । लोम-भ्यः । ते । नखेभ्यः । यक्ष्मम् । सर्वस्मात् । आत्मनः । तम् । इदम् । वि । वृहामि । ते

10.163.6

अङ्गात्-अङ्गात् । लोम्नः-लोम्नः । जातम् । पर्वणि-पर्वणि । यक्ष्मम् । सर्वस्मात् । आत्मनः । तम् । इदम् । वि । वृहामि । ते

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc