ऋग्वेदसंहिता, पदपाठ · अध्याय 10.160
॥17॥.
-र्व्_8:8।18-
(र्व्_10,160)
तीव्रस्य । अभि-वयसः । अस्य । पाहि । सर्व-रथा । वि । हरी इति । इह । मुञ्च । इन्द्र । मा । त्वा । यजमानासः । अन्ये । नि । रीरमन् । तुभ्यम् । इमे । सुतासः
तुभ्यम् । सुताः । तुभ्यम् । ओं इति । सोत्वासः । त्वाम् । गिरः । श्वात्र्याः । आ । ह्वयन्ति । इन्द्र । इदम् । अद्य । सवनम् । जुषाणः । विश्वस्य । विद्वान् । इह । पाहि । सोमम्
यः । उशता । मनसा । सोमम् । अस्मै । सर्व-हृदा । देव-कामः । सुनोति । न । गाः । इन्द्रः । तस्य । परा । ददाति । प्र-शस्तम् । इत् । चारुम् । अस्मै । कृणोति
अनु-स्पष्टः । भवति । एषः । अस्य । यः । अस्मै । रेवान् । न । सुनोति । सोमम् । निः । अरत्नौ । मघ-वा । तम् । दधाति । ब्रह्म-द्विषः । हन्ति । अननु-दिष्टः
अश्वयन्तः । गव्यन्तः । वाजयन्तः । हवामहे । त्वा । उप-गन्तवै । ओं इति । आभूषन्तः । ते । सु-मतौ । नवायाम् । वयम् । इन्द्र । त्वा । शुनम् । हुवेम
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0