ऋग्वेदसंहिता, पदपाठ · अध्याय 10.159
॥16॥.
-र्व्_8:8।17-
(र्व्_10,159)
उत् । असौ । सूर्यः । अगात् । उत् । अयम् । मामकः । भगः । अहम् । तत् । विद्वला । पतिम् । अभि । आसाक्षि । वि-ससहिः
अहम् । केतुः । अहम् । मूर्धा । अहम् । उग्रा । वि-वाचनी । मम । इत् । अनु । क्रतुम् । पतिः । सेहानायाः । उप-आचरेत्
मम । पुत्राः । शत्रु-हनः । अथो इति । मे । दुहिता । विराट् । उत । अहम् । अस्मि । सम्-जया । पत्यौ । मे । श्लोकः उत्-तमः
येन । इन्द्रः । हविषा । कृत्वी । अभवत् । द्युम्नी । उत्-तमः । इदन्म् । तत् । अक्रि । देवाः । असपत्ना । किल । अभुवम्
असपत्ना । सपत्न-घ्नी । जयन्ती । अभि-भूवरी । आ । अवृक्षम् । अन्यासाम् । वचर्ः । राधः । अस्थेयसाम्-इव
सम् । अजैषम् । इमाः । अहम् । स-पत्नीः । अभि-भूवरी । यथा । अहम् । अस्य । वीरस्य । वि-राजानि । जनस्य । च
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0