ऋग्वेदसंहिता, पदपाठ · अध्याय 10.15
॥16॥.
-र्व्_7:6।17-
(र्व्_10,15)
उत् । ईरताम् । अवरे । उत् । परासः । उत् । मध्यमाः । पितरः । सोम्यासः । असुम् । ये । ईयुः । अवृकाः । ऋत-ज्ञाः । ते । नः । अवन्तु । पितरः । हवेषु
इदम् । पितृ-भ्यः । नमः । अस्तु । अद्य । ये । पूर्वासः । ये । उपरासः । ईयुः । ये । पार्थिवे । रजसि । आ । नि-सत्ताः । ये । वा । नूनम् । सु-वृजनासु । विक्षु
आ । अहम् । पितॄन् । सु-विदत्रान् । अवित्सि । नपातम् । च । वि-क्रमणम् । च । विष्णोः । बर्हि-सदः । ये । स्वधया । सुतस्य । भजन्त । पित्वः । ते । इह । आगमिष्ठाः
बर्हि-सदः । पितरः । ऊती । अर्वाक् । इमा । वः । हव्या । चकृम । जुषध्वम् । ते । आ । गत । अवसा । शम्-तमेन । अथ । नः । शम् । योः । अरपः । दधात
उप-हूताः । पितरः । सोम्यासः । बर्हिष्येषु । नि-धिषु । प्रियेषु । ते । आ । गमन्तु । ते । इह । श्रिवन्तु । अधि । ब्रुवन्तु । ते । अवन्तु । अस्मान्
॥17॥.
-र्व्_7:6।18-
आच्य । जानु । दक्षिणतः । नि-सद्य । इमम् । यज्ञम् । अभि । गृणीत । विश्वे । मा । हि ंसिष्ट । पितरः । केन । चित् । नः । यत् । वः । आगः । पुरुषता । कराम
आसीनासः । अरुणीनाम् । उप-स्थे । रयिम् । धत्त । दाशुषे । मर्त्याय । पुत्रेभ्यः । पितरः । तस्य । वस्वः । प्र । यच्छत । ते । इह । ऊर्जम् । दधात
ये । नः । पूर्वे । पितरः । सोम्यासः । अनु-ऊहिरे । सोम-पीथम् । वसिष्ठाः । तेभिः । यमः । सम्-रराणः । हवींषि । उशन् । एशत्-भिः । प्रति-कामम् । अत्तु
ये । ततृषुः । देवत्रा । जेहमानाः । होत्राविदः । स्तोम-तष्टासः । अर्कैः । आ । अग्ने । याहि । सु-विदत्रेभिः । अर्वाङ् । सत्यैः । कव्यैः । पितृ-भिः । घर्मसत्-भिः
ये । सत्यासः । हविः-अदः । हविः-पाः । इन्द्रेण । देवैः । स-रथम् । दधानाः । आ । अग्ने । याहि । सहस्रम् । देव-वन्दैः । परैः । पूर्वैः । पितृ-भिः । घर्मसत्-भिः
॥18॥.
-र्व्_7:6।19-
अग्नि-स्वात्ताः । पितरः । आ । इह । गच्छत । सदः-सदः । सदत । सु-प्रनीतयः । अत्त । हवींषि । प्र-यतानि । बर्हिषि । अथ । रयिम् । सर्व-वीरम् । दधातन
त्वम् । अग्ने । ईळितः । जात-वेदः । अवाट् । हव्यानि । सुरभीणि । कृत्वी । प्र । अदाः । प् इतृ-भ्यः । स्वधया । ते । अक्षन् । अद्धि । त्वम् । देव । प्र-यता । हवींषि
ये । च । इह । पितरः । ये । च । न । इह । यान् । च । विद्म । यान् । ओं इति । च । न । प्र-विद्म । त्वम् । वेत्थ । यति । ते । जात-वेदः । स्वधाभिः । यज्ञम् । सु-कृतम् । जुषस्व
ये । अग्नि-दग्धाः । ये । अनग्नि-दग्धाः । मध्ये । दिवः । स्वधया । मादयन्ते । तेभिः । स्व-राट् । असु-नीतिम् । एताम् । यथावशम् । तन्वम् । कल्पयस्व
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0