भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.151

10.151.1

॥8॥.
-र्व्_8:8।9-
(र्व्_10,151)
श्रद्धया । अग्निः । सम् । इध्यते । श्रद्धया । हूयते । हविः । श्रद्धाम् । भगस्य । मूर्धनि । वचसा । आ । वेदयामसि

10.151.2

प्रियम् । श्रद्धे । ददतः । प्रियम् । श्रद्धे । दिदासतः । प्रियम् । भोजेषु । यज्वसु । इदम् । मे । उदितम् । कृधि

10.151.3

यथा । देवाः । असुरेषु । श्रद्धाम् । उग्रेषु । चक्रिरे । एवम् । भोजेषु । यज्व-सु । अस्माकम् । उदितम् । कृधि

10.151.4

श्रद्धाम् । देवाः । यजमानाः । वायु-गोपाः । उप । आसते । श्रद्धाम् । हृदय्यया । आकूत्या । श्रद्धया । विन्दते । वसु

10.151.5

श्रद्धाम् । प्रातः । हवामहे । श्रद्धाम् । मध्यन्दिनम् । परि । श्रद्धाम् । सूर्यस्य । नि-म्रुचि । श्रद्धे । श्रत् । धापय । इह । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc