ऋग्वेदसंहिता, पदपाठ · अध्याय 10.152
॥9॥.
-र्व्_8:8।10-
(र्व्_10,152)
शासः । इत्था । महान् । असि । अमित्र-खादः । अद्भुतः । न । यस्य । हन्यते । सखा । न । जीयते । कदा । चन
स्वस्ति-दाः । विशः । पतिः । वृत्र-हा । वि-मृधः । वशी । वृषा । इन्द्रः । पुरः । एतु । नः । सोम-पाः । अभयम्-करः
वि । रक्षः । वि । मृधः । जहि । वि । वृत्रस्य । हनूइति । रुज । वि । मन्युम् । इन्द्र । वृत्र-हन् । अमित्रस्य । अभि-दासतः
वि । नः । इन्द्र । मृधः । जहि । नीचा । यच्छ । पृतन्यतः । यः । अस्मान् । अभि-दासति । अधरम् । गमय । तमः
अप । इन्द्र । द्विषतः । मनः । अप । जिज्यासतः । वधम् । वि । मन्योः । शर्म । यच्छ । वरीयः । यवय । वधम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0