ऋग्वेदसंहिता, पदपाठ · अध्याय 10.150
॥7॥.
-र्व्_8:8।8-
(र्व्_10,150)
सम्-इद्धः । चित् । सम् । इध्यसे । देवेभ्यः । हव्य-वाहन् । आदित्यैः । रुद्रैः । वसु-भिः । नः । आ । गहि । मृळीकाय । नः । आ । गहि
इमम् । यज्ञम् । इदम् । वचः । जुजुषाणः । उप-आगहि । मर्तासः । त्वा । सम्-इधान । हवामहे । मृळीकाय । हवामहे
त्वाम् । ओं इति । जात-वेदसम् । विश्व-वारम् । गृणे । धिया । अग्ने । देवान् । आ । वह । नः । प्रिय-व्रतान् । मृळीकाय । प्रिय-व्रतान्
अग्निः । देवः । देवानाम् । अभवत् । पुरः-हितः । अग्निम् । मनुष्याः । ऋषयः । सम् । ईधिरे । अग्निम् । महः । धन-सातौ । अहम् । हुवे । मृळीकम् । धन-सातये
अग्निः । अत्रिम् । भरत्-वाजम् । गविष्ठिरम् । प्र । आवत् । नः । कण्वम् । त्रसदस्युम् । आहवे । अग्निम् । वसिष्ठः । हवते । पुरः-हितः । मृळीकाय । पुरः-हितः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0