ऋग्वेदसंहिता, पदपाठ · अध्याय 10.149
॥6॥.
-र्व्_8:8।7-
(र्व्_10,149)
सविता । यन्त्रैः । पृथिवीम् । अरम्णात् । अस्कम्भने । सविता । द्याम् । अदृंहत् । अश्वम्-इव । अधुक्षत् । धुनिम् । अन्तरिक्षम् । अतूर्ते । बद्धम् । सविता । समुद्रम्
यत्र । समुद्रः । स्कभितः । वि । औनत् । अपाम् । नपात् । सविता । तस्य । वेद । अतः । भूः । अतः । आः । उत्थितम् । रजः । अतः । द्यावापृथिवी इति । अप्रथेताम्
पश्चा । इदम् । अन्यत् । अभवत् । यजत्रम् । अमर्त्यस्य । भुवनस्य । भूना । सु-पर्णः । अङ्ग । सवितुः । गरुत्मान् । पूर्वः । जातः । सः । ओं इति । अस्य । अनु । धर्म
गावः-इव । ग्रामम् । यूयुधिः-इव । अश्वान् । वाश्राइव । वत्सम् । सु-मनाः । दुहाना । पतिः-इव । जायाम् । अभि । नः । नि । एतु । धर्ता । दिवः । सविता । विश्व-वारः
हिरण्य-स्तूपः । सवितः । यथा । त्वा । आङ्गिरसः । जुह्वे । वाजे । अस्मिन् । एव । त्वा । अर्चन् । अवसे । वन्दमानः । सोमस्य-इव । अंशुम् । प्रति । जागर । अहम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0