ऋग्वेदसंहिता, पदपाठ · अध्याय 10.14
॥13॥.
-र्व्_7:6।14-
(र्व्_10,14)
परेयि-वांसम् । प्र-वतः । महीः । अनु । बहु-भ्यः । पन्थाम् । अनु-पस्पशानम् । वैवस्वतम् । सम्-गमनम् । जनानाम् । यमम् । राजानम् । हविषा । दुवस्य
यमः । नः । गातुम् । प्रथमः । विवेद । न । एषा । गव्यूतिर् अप-भर्तवै । ओं इति । यत्र । नः । पूर्वे । पितरः । पराईयुः । एना । जज्ञानाः । पथ्याः । अनु । स्वाः
मातली । कव्यैः । यमः । अङ्गिरः-भिः । बृहस्पतिः । ऋक्व-भिः । ववृधानः । यान् । च । देवाः । ववृधुः । ये । च । देवान् । स्वाहा । अन्ये । स्वधया । अन्ये । मदन्ति
इमम् । यम । प्र-स्तरम् । आ । हि । सीद । अङ्गिरः-भिः । पितृ-भिः । सम्-विदानः । आ । त्वा । मन्त्राः । कवि-शस्ताः । वहन्तु । एना । राजन् । हविषा । मादयस्व
अङ्गिरः-भिः । आ । गहि । यज्ञियेभिः । यम । वैरूपैः । इह । मादयस्व । विवस्वन्तम् । हुवे । यः । पिता । ते । अस्मिन् । यज्ञे । बर्हिषि । आ । नि-सद्य
॥14॥.
-र्व्_7:6।15-
अङ्गिरसः । नः । पितरः । नव-ग्वाः । अथर्वाणः । भृगवः । सोम्यासः । तेषाम् । वयम् । सु-मतौ । यज्ञियानाम् । अपि । भद्रे । सौमनसे । स्याम
प्र । इहि । प्र । इहि । पथि-भिः । पूर्व्येभिः । यत्र । नः । पूर्वे । पितरः । पराईयुः । उभा । राजाना । स्वधया । मदन्ता । यमम् । पश्यासि । वरुणम् । च । देवम्
सम् । गच्छस्व । पितृ-भिः । सम् । यमेन । इष्टापूर्तेन । परमे । वि-ओमन् । ह् इत्वाय । अवद्यम् । पुनः । अस्तम् । आ । इहि । सम् । गच्छस्व । तन्वा । सु-वर्चाः
अप । इत । वि । इत । वि । च । सर्पत । अतः । अस्मै । एतम् । पितरः । लोकम् । अक्रन् । अहः-भिः । अत्-भिः । अक्तु-भिः । वि-अक्तम् । यमः । ददाति । अव-सानम् । अस्मै
अति । द्रव । सारमेयौ । श्वानौ । चतुः-अक्षौ । शबलौ । साधुना । पथा । अथ । पितॄन् । सु-विदत्रान् । उप । इहि । यमेन । ये । सध-मादम् । मदन्ति
॥15॥.
-र्व्_7:6।16-
यौ । ते । श्वानौ । यम । रक्षितारौ । चतुः-अक्षौ । पथिरक्षी इतिपथि-रक्षी । नृ-चक्षसौ । ताभ्याम् । एनम् । परि । देहि । राजन् । स्वस्ति । च । अस्मै । अनमीवम् । च । धेहि
उरु-नसौ । असु-तृपौ । उदुम्बलौ । यमस्य । दूतौ । चरतः । जनान् । अनु । तौ । अस्मभ्यम् । दृशये । सूर्याय । पुनः । दाताम् । असुम् । अद्य । इह । भद्रम्
यमाय । सोमम् । सुनुत । यमाय । जुहुत । हविः । यमम् । ह । यज्ञः । गच्छत् इ । अग्नि-दूतः । अरम्-कृतः
यमाय । घृत-वत् । हविः । जुहोत । प्र । च । तिष्ठत । सः । नः । देवेषु । आ । यमत् । दीर्घम् । आयुः । प्र । जीवसे
यमाय । मधुमत्-तमम् । राज्ञे । हव्यम् । जुहोतन । इदम् । नमः । ऋषि-भ्यः । पूर्व-जेभ्यः । पूर्वेभ्यः । पथिकृत्-भ्यः
त्रि-कद्रुकेभिः । पतति । षट् । उर्वीः । एकम् । इत् । बृहत् । त्रि-स्तुप् । गायत्री । छन्दांसि । सर्वा । ता । यमे । आहिता
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0