ऋग्वेदसंहिता, पदपाठ · अध्याय 10.148
॥5॥.
-र्व्_8:8।6-
(र्व्_10,148)
सुस्वानासः । इन्द्र । स्तुमसि । त्वा । सस-वांसः । च । तुवि-नृम्ण । वाजम् । आ । नः । भर । सुवितम् । यस्य । चाकन् । त्मना । तना । सनुयाम । त्वाऊताः
ऋष्वः । त्वम् । इन्द्र । शूर । जातः । दासीः । विशः । सूर्येण । सह्याः । गुहा । हितम् । गुह्यम् । गूळ्हम् । अप्-सु । बिभृमसि । प्र-स्रवणे । न । सोमम्
अर्यः । वा । गिरः । अभि । अर्च । विद्वान् । ऋषीणाम् । विप्रः । सु-मतिम् । चकानः । ते । स्याम । ये । रणयन्त । सोमैः । एना । उत । तुभ्यम् । रथ-ओळ्ह । भक्षैः
इमा । ब्रह्म । इन्द्र । तुभ्यम् । शंसि । दाः । नृ-भ्यः । नृणाम् । शूर । शवः । तेभि ः । भव । स-क्रतुः । येषु । चाकन् । उत । त्रायस्व । गृणतः । उत । स्तीन्
श्रुधि । हवम् । इन्द्र । शूर । पृथ्याः । उत । स्तवते । वेन्यस्य । अर्कैः । आ । यः । ते । योनिम् । घृत-वन्तम् । अस्वाः । ऊर्मिः । न । निम्नैः । द्रवयन्त । वक्वाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0