ऋग्वेदसंहिता, पदपाठ · अध्याय 10.147
॥4॥.
-र्व्_8:8।5-
(र्व्_10,147)
श्रत् । ते । दधामि । प्रथमाय । मन्यवे । अहन् । यत् । वृत्रम् । नर्यम् । विवेः । अपः । उभे इति । यत् । त्वा । भवतः । रोदसी इति । अनु । रेजते । शुष्मात् । पृथिवी । चित् । अद्रि-वः
त्वम् । मायाभिः । अनवद्य । मायिनम् । श्रवस्यता । मनसा । वृत्रम् । अर्दय । त्वाम् । इत् । नरः । वृणते । गविष्टिषु । त्वाम् । विश्वासु । हव्यासु । इष्टिषु
आ । एषु । चाकन्धि । पुरु-हूत । सूरिषु । वृधासः । ये । मघ-वन् । आनशुः । मघम् । अर्चन्ति । तोके । तनये । परिष्टिषु । मेध-साता । वाजिनम् । अह्वये । धने
सः । इत् । नु । रायः । सु-भृतस्य । चाकनत् । मदम् । यः । अस्य । रंह्यम् । चिकेतति । त्वावृधः । मघ-वन् । दाशु-अध्वरः । मक्षु । सः । वाजम् । भरते । धना । नृ-भिः
त्वम् । शर्धाय । महिना । गृणानः । उरु । कृधि । मघ-वन् । शग्धि । रायः । त्वम् । नः । मित्रः । वरुणः । न । मायी । पित्वः । न । दस्म । दयसे । वि-भक्ता
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0