भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.144

10.144.1

॥1॥.
-र्व्_8:8।2-
(र्व्_10,144)
अयम् । हि । ते । अमर्त्यः । इन्दुः । अत्यः । न । पत्यते । दक्षः । विश्व-आयुः । वेधसे

10.144.2

अयम् । अस्मासु । काव्यः । ऋभुः । वज्रः । दास्वते । अयम् । बिभर्ति । ऊर्ध्व-कृशनम् । मदम् । ऋभुः । न । कृत्व्यम् । मदम्

10.144.3

घृषुः । श्येनाय । कृत्वने । आसु । स्वासु । वंसगः । अव । दीधेत् । अहीशुवः

10.144.4

यम् । सु-पर्णः । परावतः । श्येनस्य । पुत्रः । आ । अभरत् । शत-चक्रम् । यः । अह्यः । वर्तनिः

10.144.5

यम् । ते । श्येनः । चारुम् । अवृकम् । पदा । आ । अभरत् । अरुणम् । मानम् । अन्धसः । एना । वयः । वि । तारि । आयुः । जीवसे । एना । जागार । बन्धुता

10.144.6

एव । तत् । इन्द्रः । इन्दुना । देवेषु । चित् । धारयाते । महि । त्यजः । क्रत्वा । वयः । वि । तारि । आयुः । सुक्रतो इतिसु-क्रतो । क्रत्वा । अयम् । अस्मत् । आ । सुतः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc