ऋग्वेदसंहिता, पदपाठ · अध्याय 10.143
॥30॥.
-र्व्_8:8।1-
(र्व्_10,143)
त्यम् । चित् । अत्रिम् । ऋत-जुरम् । अर्थम् । अश्वम् । न । यातवे । कक्षीवन्तम् । यदि पुनरिति । रथम् । न । कृणुथः । नवम्
त्यम् । चित् । अश्वम् । न । वाजिनम् । अरेणवः । यम् । अत्नत । दृळ्हम् । ग्रन्थिम् । न । वि । स्यतम् । अत्रिम् । यविष्ठम् । आ । रजः
नरा । दंसिष्ठौ । अत्रये । शुभ्रा । सिसासतम् । धियः । अथ । हि । वाम् । दिवः । नरा । पुनरिति । स्तोमः । न । विशसे
चिते । तत् । वाम् । सु-राधसा । रातिः । सु-मतिः । अश्विना । आ । यत् । नः । सदने । पृथौ । समने । पर्षथः । नरा
युवम् । भुज्युम् । समुद्रे । आ । रजसः । पारे । ईङ्खितम् । यातम् । अच्छ । पतत्रि-भिः । नासत्या । सातये । कृतम्
आ । वाम् । सुम्नैः । शंयूइवेतिशंयू-इव । मंहिष्ठा । विश्व-वेदसा । सम् । अस्मे इति । भूषतम् । नरा । उत्सम् । न । पिप्युषीः । इषः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0