ऋग्वेदसंहिता, पदपाठ · अध्याय 10.145
॥2॥.
-र्व्_8:8।3-
(र्व्_10,145)
इमाम् । खनामि । ओषधिम् । वीरुधम् । बलवत्-तमाम् । यया । स-पत्नीम् । बाधते । यया । सम्-विन्दते । पतिम्
उत्तान-पर्णे । सु-भगे । देव-जूते । सहस्वति । स-पत्नीम् । मे । परा । धम । पतिम् । मे । केवलम् । कुरु
उत्-तरा । अहम् । उत्-तरे । उत्-तरा । इत् । उत्-तराभ्यः । अथ । स-पत्नी । या । मम । अधरा । सा । अधराभ्यः
नहि । अस्याः । नाम । गृभ्णामि । नो इति । अस्मिन् । रमते । जने । पराम् । एव । परावतम् । स-पत्नीम् । गमयामसि
अहम् । अस्मि । सहमाना । अथ । त्वम् । असि । ससहिः । उभे इति । सहस्वती इति । भूत्वी । स-प्त्नीम् । मे । सहावहै
उप । ते । अधाम् । सहमानाम् । अभि । त्वा । अधाम् । सहीयसा । माम् । अनु । प्र । ते । मनः । वत्सम् । गौः-इव । धावतु । पथा । वाः-इव । धावतु
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0