ऋग्वेदसंहिता, पदपाठ · अध्याय 10.142
॥29॥.
-र्व्_8:7।30-
(र्व्_10,142)
अयम् । अग्ने । जरिता । त्वे इति । अभूत् । अपि । सहसः । सूनो इति । नहि । अन्यत् । अस्ति । आप्यम् । भद्रम् । हि । शर्म । त्रि-वराऊथम् । अस्ति । ते । आरे । हिंसानाम् । अप । दिद्युम् । आ । कृधि
प्र-वत् । ते । अग्ने । जनिम । पितु-यतः । साची-इव । विश्वा । भुवना । नि । ऋञ्जसे । प्र । सप्तयः । प्र । सनिषन्त । नः । धियः । पुरः । चरन्ति । पशु-पाः-इव । त्मना
उत । वा । ओं इति । परि । वृणक्षि । बप्सत् । बहोः । अग्ने । उलपस्य । स्वधावः । उत । खिल्याः । उर्वराणाम् । भवन्ति । मा । ते । हेतिम् । तविषीम् । चुक्रुधाम
यत् । उत्-वतः । नि-वतः । यासि । बप्सत् । पृथक् । एषि । प्रगर्धिनी-इव । सेना । यदा । ते । वातः । अनु-वाति । शोचिः । वप्ताइव । श्मश्रु । वपसि । प्र । भूम
प्रति । अस्य । श्रेणयः । ददृश्रे । एकम् । नि-यानम् । बहवः । रथासः । बाहू इति । यत् । अग्ने । अनु-मर्मृजानः । न्यङ् । अत्तानाम् । अनु-एषि । भूमिम्
उत् । ते । शुष्माः । जिहताम् । उत् । ते । अग्ने । शशमानस्य । वाजाः । उत् । श्वञ्चस्व । नि । नमः । वर्धमानः । आ । त्वा । अद्य । विश्वे । वसवः । सदन्तु
अपाम् । इदम् । नि-अयनम् । समुद्रस्य । नि-वेशनम् । अन्यङ्म् । कृणुष्व । इतः । पन्थाम् । तेन । याहि । वशान् । अनु
आयने । ते । परायने । दूर्वाः । रोहन्तु । पुष्पिणीः । ह्रदाः । च । पुण्डरीकाणि । समुद्रस्य । गृहाः । इमे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0