ऋग्वेदसंहिता, पदपाठ · अध्याय 10.141
॥28॥.
-र्व्_8:7।29-
(र्व्_10,141)
अग्ने । अच्छ । वद । इह । नः । प्रत्यङ् । नः । सु-मनाः । भव । प्र । नः । यच्छ । विशः । पते । धन-दाः । असि । नः । त्वम्
प्र । नः । यच्छतु । अर्यमा । प्र । भगः । प्र । बृहस्पतिः । प्र । देवाः । प्र । उत । सूनृता । रायः । देवी । ददातु । नः
सोमम् । राजानम् । अवसे । अग्निम् । गीः-भिः । हवामहे । आदित्यान् । विष्णुम् । सूर्यम् । ब्रह्माणम् । च । बृहस्पतिम्
इन्द्रवायू इति । बृहस्पतिम् । सु-हवा । इह । हवामहे । यथा । नः । सर्वः । इत् । जनः । सम्-गत्याम् । सु-मनाः । असत्
अर्यमणम् । बृहस्पतिम् । इन्द्रम् । दानाय । चोदय । वातम् । विष्णुम् । सरस्वतीम् । सवितारम् । च । वाजिनम्
त्वम् । नः । अग्ने । अग्नि-भिः । ब्रह्म । यज्ञम् । च । वर्धय । त्वम् । नः । देव-तातये । रायः । दानाय । चोदय
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0