भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.140

10.140.1

॥27॥.
-र्व्_8:7।28-
(र्व्_10,140)
अग्ने । तव । श्रवः । वयः । महि । भ्राजन्ते । अर्चयः । विभावसो इतिविभावसो । बृहद्भानो इतिबृहत्-भानो । शवसा । वाजम् । उक्थ्यृअम् । दधासि । दाशुषे । कवे

10.140.2

पावक-वर्चाः । शुक्र-वर्चाः । अनून-वर्चाः । उत् । इयर्षि । भानुना । पुत्रः । मातरा । वि-चरन् । उप । अवसि । पृणक्षि । रोदसी इति । उभे इति

10.140.3

ऊर्जः । नपात् । जात-वेदः । सुशस्ति-भिः । मन्दस्व । धीति-भिः । हितः । त्वे इति । इषः । सम् । दधुः । भूरि-वर्पसः । चित्र-ऊतयः । वाम-जाताः

10.140.4

इरज्यन् । अग्ने । प्रथयस्व । जन्तु-भिः । अस्मे इति । रायः । अमर्त्य । सः । दर्शतस्य । वपुषः । वि । राजसि । पृणक्षि । सानसिम् । क्रतुम्

10.140.5

इष्कर्तारम् । अध्वरस्य । प्र-चेतसम् । क्षयन्तम् । राधसः । महः । रातिम् । वामस्य । सु-भगाम् । महीम् । इषम् । दधासि । सानसिम् । रयिम्

10.140.6

ऋत-वानम् । महिषम् । विश्व-दर्शतम् । अग्निम् । सुम्नाय । दधिरे । पुरः । जनाः । श्रुत्-कर्णम् । सप्रथः-तमम् । त्वा । गिरा । दैव्यम् । मानुषा । युगा

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc