ऋग्वेदसंहिता, पदपाठ · अध्याय 10.139
॥26॥.
-र्व्_8:7।27-
(र्व्_10,139)
सूर्य-रश्मिः । हरि-केशः । पुरस्तात् । सविता । ज्योतिः । उत् । अयान् । अजस्रम् । तस्य । पूषा । प्र-सवे । याति । विद्वान् । सम्-पश्यन् । विश्वा । भुवनानि । गोपाः
नृ-चक्षाः । एषः । दिवः । मध्ये । आस्ते । आपप्रि-वान् । रोदसी इति । अन्तरिक्षम् । सः । विश्वाचीः । अभि । चष्टि । घृताचीः । अन्तरा । पूर्वम् । अपरम् । च । केतुम्
रायः । बुध्नः । सम्-गमनः । वसूनाम् । विश्वा । रूपा । अभि । चष्टे । शचीभिः । देवः-इव । सविता । सत्य-धर्मा । इन्द्रः । न । तस्थौ । सम्-अरे । धनानाम्
विश्व-वसुम् । सोम । गन्धर्वम् । आपः । ददृशुषीः । तत् । ऋतेन । वि । आयन् । तत् । अनु-अवैत् । इन्द्रः । ररहाणः । आसाम् । परि । सूर्यस्य । परि-धीन् । अपश्यत्
विश्व-वसुः । अभि । तत् । नः । गृणातु । दिव्यः । गन्धर्वः । रजसः । वि-मानः । यत् । वा । घ । सत्यम् । उत । यत् । न । विद्म । धियः । हिन्वानः । धियः । इत् । नः । अव्याः
सस्निम् । अविन्दत् । चरणे । नदीनाम् । अप । अवृणोत् । दुरः । अश्म-व्रजानाम् । प्र । आसाम् । गन्धर्वः । अमृतानि । वोचत् । इन्द्रः । दक्षम् । परि । जानात् । अहीनाम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0