भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.13

10.13.1

॥12॥.
-र्व्_7:6।13-
(र्व्_10,13)
युजे । वाम् । ब्रह्म । पूर्व्यम् । नमः-भिः । वि । श्लोकः । एतु । पथ्याइव । सूरेः । शृण्वन्तु । विश्वे । अमृतस्य । पुत्राः । आ । ये । धामानि । दिव्यानि । तस्थुः

10.13.2

यमे इवेतियमे--इव । यतमानेइति । यत् । ऐतम् । प्र । वाम् । भरन् । मानुषाः । देव-यन्तः । आ । सीदतम् । स्वम् । ओं इति । लोकम् । विदानेइति । स्वासस्थे इतिसु-आसस्थे । भवतम् । इन्दवे । नः

10.13.3

पञ्च । पदानि । रुपः । अनु । अरोहम् । चतुः-पदीम् । अनु । एमि । व्रतेन । अक्षरेण । प्रति । मिमे । एताम् । ऋतस्य । नाभौ । अधि । सम् । पुनामि

10.13.4

देवेभ्यः । कम् । अवृणीत । मृत्युम् । प्र-जायै । कम् । अमृतम् । न । अवृणीत । बृहस्पतिम् । यज्ञम् । अकृण्वत । ऋषिम् । प्रियाम् । यमः । तन्वम् । प्र । अरिरेचीत्

10.13.5

सप्त । क्षरन्ति । शिशवे । मरुत्वते । पित्रे । पुत्रासः । अपि । अवीवतन् । ऋतम् । उभे इति । इत् । अस्य । उभयस्य । राजतः । उभे इति । यतेतेइति । उभयस्य । पुष्यतः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc