ऋग्वेदसंहिता, पदपाठ · अध्याय 10.138
॥25॥.
-र्व्_8:7।26-
(र्व्_10,138)
तव । त्ये । इन्द्र । सख्येषु । वह्नयः । ऋतम् । मन्वानाः । वि । अदर्दिरुः । वलम् । यत्र । दशस्यन् । उषसः । रिणन् । आपः । कुत्साय । मन्मन् । अह्यः । च । दंसयः
अव । असृजः । प्र-स्वः । श्वञ्चयः । गिरीन् । उत् । आजः । उस्राः । अपिबः । मधु । प्रियम् । अवर्धयः । वनिनः । अस्य । दंससा । शुशोच । सूर्यः । ऋत-जातया । गिरा
वि । सूर्यः । मध्ये । अमुचत् । रथम् । दिवः । विदत् । दासाय । प्रति-मानम् । आयर्ः । दृळ्हानि । पिप्रोः । असुरस्य । मायिनः । इन्द्रः । वि । आस्यत् । चकृ-वान् । ऋजिश्वना
अनाधृष्टानि । धृषितः । वि । आस्यत् । नि-धीन् । अदेवान् । अमृणत् । अयास्यः । मासाइव । सूर्यः । वसु । पुर्यम् । आ । ददे । गृणानः । शत्रून् । अशृणात् । वि-रुक्मता
अयुद्ध-सेनः । वि-भ्वा । वि-भिन्दता । दाशत् । वृत्र-हा । तुज्यानि । तेजते । इन्द्रस्य । वज्रात् । अबिभेत् । अभि-श्नथः । प्र । अक्रामत् । शुन्ध्यूः । अजहात् । उषाः । अनः
एता । त्या । ते । श्रुत्यानि । केवला । यत् । एकः । एकम् । अकृणोः । अयज्ञम् । मासाम् । वि-धानम् । अदधाः । अधि । द्यवि । त्वया । वि-भिन्नम् । भरति । प्र-घिम् । पिता
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0