ऋग्वेदसंहिता, पदपाठ · अध्याय 10.137
॥24॥.
-र्व्_8:7।25-
(र्व्_10,137)
उत । देवाः । अव-हितम् । देवाः । उत् । नयथ । पुनरिति । उत । आगः । चक्रुषम् । देवः । देवाः । जीवयथ । पुनरिति
द्वौ । इमौ । वातौ । वातः । आ । सिन्धोः । आ । परावतः । दक्षम् । ते । अन्यः । आ । वातु । परा । अन्यः । वातु । यत् । रपः
आ । वात । वाहि । भेषजम् । वि । वात । वाहि । यत् । रपः । त्वम् । हि । विश्व-भेषजः । देवानाम् । दूतः । ईयसे
आ । त्वा । अगमम् । शन्ताति-भिः । अथो इति । अरिष्टताति-भिः । दक्षम् । ते । भद्रम् । आ । अभर्षम् । परा । यक्ष्मम् । सुवाम् इते
त्रायन्ताम् । इह । देवाः । त्रायताम् । मरुताम् । गणः । त्रायन्ताम् । विश्वा । भूतानि । यथा । अयम् । अरपाः । असत्
आपः । इत् । वा । ओं इति । भेषजीः । आपः । अमीव-चातनीः । आपः । सर्वस्य । भेषजीः । ताः । ते । कृण्वन्तु । भेषजम्
हस्ताभ्याम् । दश-शाखाभ्याम् । जिह्वा । वाचः । पुरः-गवी । अनामयित्नु-भ्याम् । त्वा । ताभ्याम् । त्वा । उप । स्पृशामसि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0