ऋग्वेदसंहिता, पदपाठ · अध्याय 10.136
॥23॥.
-र्व्_8:7।24-
(र्व्_10,136)
केशी । अग्निम् । केशी । विषम् । केशी । बिभर्ति । रोदसी इति । केशी । विश्वम् । स्वः । दृशे । केशी । इदम् । ज्योतिः । उच्यते
मुनयः । वात-रशणाः । पिशङ्गाः । वसते । मला । वातस्य । अन । ध्राजिम् । यन्ति । यत् । देवासः । अविक्षत
उत्-मदिता । मौनेयेन । वातान् । आ । तस्थिम । वयम् । शरीरा । इत् । अस्माकम् । यूयम् । मर्तासः । अभि । पश्यथ
अन्तरिक्षेण । पतति । विश्वा । रूपा । अव-चाकशत् । मुनिः । देवस्य-देवस्य । सौकृत्याय । सखा । हितः
वातस्य् अ । अश्वः । वायोः । सखा । अथो इति । देव-इषितः । मुनिः । उभौ । समुद्रौ । आ । क्षेति । यः । च । पूर्वः । उत । अपरः
अप्सरसाम् । गन्धर्वाणाम् । मृगाणाम् । चरणे । चरन् । केशी । केतस्य । विद्वान् । सखा । स्वादुः । मदिन्-तमः
वायुर् । अस्मै । उप । अमन्थत् । पिनष्टि । स्म । कुनन्नमा । केशी । विषस्य । पात्रेण । यत् । रुद्रेण । अपिबत् । सह
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0