ऋग्वेदसंहिता, पदपाठ · अध्याय 10.135
॥22॥.
-र्व्_8:7।23-
(र्व्_10,135)
यस्मिन् । वृक्षे । सु-पलाशे । देवैः । सम्-पिबते । यमः । अत्र । नः । विश्पत् इः । पिता । पुराणान् । अनु । वेनति
पुराणान् । अनु-वेनन्तम् । चरन्तम् । पापया । अमुया । असूयन् । अभि । अचाकशम् । तस्मै । अस्पृहयम् । पुनरिति
यम् । कुमार । नवम् । रथम् । अचक्रम् । मनसा । अकृणोः । एक-ईषम् । विश्वतः । प्राञ्चम् । अपश्यन् । अधि । तिष्ठसि
यम् । कुमार । प्र । अवर्तयः । रथम् । विप्रेभ्यः । परि । तम् । साम । अनु । प्र । अवर्तत । सम् । इतः । नावि । आहितम्
कः । कुमारम् । अजनयत् । रथम् । कः । निः । अवर्तयत् । कः । स्वित् । तत् । अद्य । नः । ब्रूयात् । अनु-देयी । यथा । अभवत्
यथा । अभवत् । अनु-देयी । ततः । अग्रम् । अजायत । पुरस्तात् । बुध्नः । आततः । पश्चात् । निः-अयनम् । कृतम्
इदम् । यमस्य । सदनम् । देव-मानम् । यत् । उच्यते । इयम् । अस्य । धम्यते । नाळीः । अयम् । गीः-भिः । परि-कृतः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0