भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.134

10.134.1

॥21॥.
-र्व्_8:7।22-
(र्व्_10,134)
उभे इति । यत् । इन्द्र । रोदसी
इति । आपप्राथ । उषाः-इव । महान्तम् । त्वा । महीनाम् । सम्-राजम् । चर्षणीनाम् । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत्

10.134.2

अव । स्म । दुः-हनायतः । मर्तस्य । तनुहि । स्थिरम् । अधः-पदम् । तम् । ईम् । कृधि । यः । अस्मान् । आदिदेशति । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत्

10.134.3

अव । त्याः । बृहतीः । इषः । विश्व-चन्द्राः । अमित्र-हन् । शचीभिः । शक्र । धूनुहि । इन्द्र । विश्वाभिः । ऊति-भिः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत्

10.134.4

अव । यत् । त्वम् । शत-क्रतो
इतिशत-क्रतो । इन्द्र । विश्वानि । धूनुषे । रयम् । नि । सुन्वते । सचा । सहस्रिणीभिः । ऊति-भिः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत्

10.134.5

अव । स्वेदाः-इव । अभितः । विष्वक् । पतन्तु । दिद्यवः । दूर्वायाः-इव । तन्तवः । वि । अस्मत् । एतु । दुः-मतिः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत्

10.134.6

दीर्घम् । हि । अङ्कुशम् । यथा । शक्तिम् । बिभर्षि । मन्तु-मः । पूर्वेण । मघ-वन् । पदा । अजः । वयाम् । यथा । यमः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत्

10.134.7

नकिः । देवाः । मिनीमसि । नकिः । आ । योपयामसि । मन्त्र-श्रुत्यम् । चरामसि । पक्षेभिः । अपिकक्षेभिः । अत्र । अभि । सम् । रभामहे

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc