भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.133

10.133.1

॥20॥.
-र्व्_8:7।21-
(र्व्_10,133)
प्रो इति । सु । अस्मै । पुरः-रथम् । इन्द्राय । शूषम् । अर्चत । अभीके । चित् । ओं इति । लोक-कृत् । सम्-गे । समत्-सु । वृत्र-हा । अस्माकम् । बोधि । चोदिता । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्व-सु

10.133.2

त्वम् । सिन्धून् । अव । असृजः । अधराचः । अहन् । अहिम् । अशत्रुः । इन्द्र । जज्ञिषे । विश्वम् । पुष्यसि । वार्यम् । तम् । त्वा । परि । स्वजामहे । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्व-सु

10.133.3

वि । सु । विश्वा । अरातयः । अर्यः । नशन्त । नः । धियः । अस्ता । असि । शत्रवे । वधम् । यः । नः । इन्द्र । जिघांसति । या । ते । रातिः । ददिः । वसु । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्व-सु

10.133.4

यः । नः । इन्द्र । अभितः । जनः । वृक-युः । आदिदेशति । अधः-पदम् । तम् । ईम् । कृधि । वि-बाधः । असि । ससहिः । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्व-सु

10.133.5

यः । नः । इन्द्र । अभि-दासति । स-नाभिः । यः । च । निष्ट्यः । अव । तस्य । बलम् । तिर । मही-इव । द्यौः । अध । त्मना । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्व-सु

10.133.6

वयम् । इन्द्र । त्वायवः । सखि-त्वम् । आ । रभामहे । ऋतस्य । नः । पथा । नयाति । विश्वानि । दुः-इता । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्व-सु

10.133.7

अस्मभ्यम् । सु । त्वम् । इन्द्र । ताम् । शिक्ष । या । दोहते । प्रति । वरम् । जरित्रे । अच्छ् इद्र-ऊघ्नी । पीपयत् । यथा । नः । सहस्र-धारा । पयसा । मही । गौः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc