भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.132

10.132.1

॥19॥.
-र्व्_8:7।20-
(र्व्_10,132)
ईजानम् । इत् । द्यौः । गूर्त-वसुः । ईजानम् । भूमिः । अभि । प्र-भूषणि । ईजानम् । देवौ । अश्विनौ । अभि । सुम्नैः । अवर्धताम्

10.132.2

ता । वाम् । मित्रावरुणा । धारयत्क्षिती इतिधारयत्-क्षिती । सु-सुम्ना । इषितत्वता । यजामसि । युवोः । क्राणाय । सख्यैः । अभि । स्याम । रक्षसः

10.132.3

अध । चित् । नु । यत् । दधिषामहे । वाम् । अभि । प्रियम् । रेक्णः । पत्यमानाः । दद्वान् । वा । यत् । पुष्यति । रेक्णः । सम् । ओं इति । आरन् । नकिः । अस्य । मघानि

10.132.4

असौ । अन्यः । असुर । सूयत । द्यौः । त्वम् । विश्वेषाम् । वरुण । असि । राजा । मूर्धा । रथस्य । चाकन् । न । एतावता । एनसा । अन्तक-ध्रुक्

10.132.5

अस्मिन् । सु । एतत् । शक-पूते । एनः । हिते । मित्रे । नि-गतान् । हन्ति । वीरान् । अवोः । वा । यत् । धात् । तनूषु । अवः । प्रियासुयज्ञियास्व् अर्वा

10.132.6

युवोः । हि । माता । अदितिः । वि-चेतसा । द्यौः । न । भूमिः । पयसा । पुपूतनि । अव । प्रिया । दिदिष्टन । सूरः । निनिक्त । रश्मि-भिः

10.132.7

युवम् । हि । अप्न-राजौ । असीदतम् । तिष्ठत् । रथम् । न । धूः-सदम् । वन-सदम् । ताः । नः । कणूक-यन्तीः । नृ-मेधः । तत्रे । अंहसः । सु-मेधः । तत्रे । अंहसः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc