ऋग्वेदसंहिता, पदपाठ · अध्याय 10.131
॥18॥.
-र्व्_8:7।19-
(र्व्_10,131)
अप । प्राचः । इन्द्र । विश्वान् । अमित्रान् । अप । अपाचः । अभि-भूते । नुदस्व । अप । उदीचः । अप । शूर । अधराचः । उरौ । यथा । तव । शर्मन् । मदेम
कुवित् । अङ्ग । यव-मन्तः । यवम् । चित् । यथा । दान्ति । अनु-पूर्वम् । वि-यूय । इह-इह । एषाम् । कृणुहि । भोजनानि । ये । बर्हिषः । नमः-वृक्तिम् । न । जग्मुः
नहि । स्थूरि । ऋतु-था । यातम् । अस्ति । न । उत । श्रवः । विविदे । सम्-गमेषु । गव्यन्तः । इन्द्रम् । सख्याय । विप्राः । अश्व-यन्तः । वृषणम् । वाज-यन्तः
युवम् । सुरामम् । अश्विना । नमुचौ । आसुरे । सचा । वि-पिपाना । शुभः । पती इति । इन्द्रम् । कर्म-सु । आवतम्
पुत्रम्-इव । पितरौ । अश्विना । उभा । इन्द्र । आवथुः । काव्यैः । दंसनाभिः । यत् । सुरामम् । वि । अपिबः । शचीभिः । सरस्वती । त्वा । मघ-वन् । अभिष्णक्
इन्द्रः । सु-त्रामा । स्व-वान् । अवः-भिः । सु-मृळीकः । भवतु । विश्व-वेदाः । बाधताम् । द्वेषः । अभयम् । कृणोतु । सु-वीर्यस्य । पतयः । स्याम
तस्य । वयम् । सु-मतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम । सः । सुत्रामा । स्व-वान् । इन्द्रः । अस्मे इति । आरात् । चित् । द्वेषः । सनुत । युयोतु
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0