भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.130

10.130.1

॥17॥.
-र्व्_8:7।18-
(र्व्_10,130)
यः । यज्ञः । विश्वतः । तन्तु-भिः । ततः । एक-शतम् । देव-कर्मेभिः । आयतः । इमे । वयन्ति । पितरः । ये । आययुः । प्र । वय । अप । वय । इति । आसते । तते

10.130.2

पुमान् । एनम् । तनुते । उत् । कृणत्ति । पुमान् । वि । तत्ने । अधि । नाके । अस्मिन् । इमे । मयूखाः । उप । सेदुः । ओं इति । सदः । सामानि । चक्रुः । तसराणि । ओतवे

10.130.3

का । आसीत् । प्र-मा । प्रति-मा । किम् । नि-दानम् । आज्यम् । किम् । आसीत् । परि-धिः । कः । आसीत् । छन्दः । किम् । आसीत् । प्रौगम् । किम् । उक्थम् । यत् । देवाः । देवम् । अयजन्त । विश्वे

10.130.4

अग्नेः । गायत्री । अभवत् । स-युग्वा । उष्णिहया । सविता । सम् । बभूव । अनु-स्तुभा । सोमः । उक्थैः । महस्वान् । बृहस्पतेः । बृहती । वाचम् । आवत्

10.130.5

विराट् । मित्रावरुणयोः । अभि-श्रीः । इन्द्रस्य । त्रि-स्तुप् । इह । भागः । अह्नः । विश्वान् । देवान् । जगती । आ । विवेश । तेन । चाकॢप्रे । ऋषयः । मनुष्याः

10.130.6

चाकेप्रे । तेन । ऋषयः । मनुष्याः । यज्ञे । जाते । पितरः । नः । पुराणे । पश्यन् । मन्ये । मनसा । चक्षसा । तान् । ये । इमम् । यज्ञम् । अयजन्त । पूर्वे

10.130.7

सह-स्तोमाः । सह-छन्दसः । आवृतः । सह-प्रमाः । ऋषयः । सप्त । दैव्याः । पूर्वेषाम् । पन्थाम् । अनु-दृश्य । धीराः । अनु-आलेभिरे । रथ्यः । न । रश्मीन्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc