भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.129

10.129.1

॥16॥.
-र्व्_8:7।17-
(र्व्_10,129)
न । असत् । आसीत् । नो इति । सत् । आसीत् । तदानीम् । न । आसीत् । रजः । नो इति । वि-ओम । परः । यत् । किम् । आ । अवरीवरिति । कुह । कस्य । शर्मन् । अम्भः । किम् । आसीत् । गहनम् । गभीरम्

10.129.2

न । मृत्युः । आसीत् । अमृतम् । न । तर्हि । न । रात्र्याः । अह्नः । आसीत् । प्र-केतः । आनीत् । अवातम् । स्वधया । तत् । एकम् । तस्मात् । ह । अन्यत् । न । परः । किम् । चन । आस

10.129.3

तमः । आसीत् । तमसा । गूळ्हम् । अग्रे । अप्र-केतम् । सलिलम् । सर्वम् । आः । इदम् । तुच्छ्येन । आभु । अपि-हितम् । यत् । आसीत् । तपसः । तत् । महिना । अजायत । एकम्

10.129.4

कामः । तत् । अग्रे । सम् । अवर्तत । अधि । मनसः । रेतः । प्रथमम् । यत् । आसीत् । सतः । बन्धुम् । असति । निः । अविन्दन् । हृदि । प्रतीष्या । कवयः । मनीषा

10.129.5

तिरश्चीनः । वि-ततः । रश्मिः । एषाम् । अधः । स्वित् । आसी3त् । उपरि । स्वित् । आसी3त् । रेतः-धाः । आसन् । महिमानः । आसन् । स्वधा । अवस्तात् । प्र-यतिः । परस्तात्

10.129.6

कः । अद्धा । वेद । कः । इह । प्र । वोचत् । कुतः । आजाता । कुतः । इयम् । वि-सृष्टिः । अर्वाक् । देवाः । अस्य । वि-सर्जनेन । अथ । कः । वेद । यतः । आबभूव

10.129.7

इयम् । वि-सृष्टिः । यतः । आबभूव । यदि । वा । दधे । यदि । वा । न । यः । अस्य । अधि-अक्षः । परमे । वि-ओमन् । सः । अङ्ग । वेद । यदि । वा । न । वेद

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc