भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.12

10.12.1

॥10॥.
-र्व्_7:6।11-
(र्व्_10,12)
द्यावा । ह । क्षामा । प्रथमे इति । ऋतेन । अभि-श्रावे । भवतः । सत्य-वाचा । देवः । यत् । मर्तान् । यजथाय । कृण्वन् । सीदत् । होता । प्रत्यङ् । स्वम् । असुम् । यन्

10.12.2

देवः । देवान् । परि-भूः । ऋतेन । वह । नः । हव्यम् । प्रथमः । चिकित्वान् । धूम-केतुः । सम्-इधा । भाः-ऋजीकः । मन्द्रः । होता । नित्यः । वाचा । यजीयान्

10.12.3

स्वावृक् । देवस्य । अमृतम् । यदि । गोः । अतः । जातासः । धारयन्ते । उर्वी इति । विश्वे । देवाः । अनु । तत् । ते । यजुः । गुः । दुहे । यत् । एनी । दिव्यम् । घृतम् । वारित् इवाः

10.12.4

अर्चामि । वाम् । वर्धाय । अपः । घृतस्नूइतिघृत-स्नू । द्यावाभूमी इति । शृणुतम् । रोदसी इति । मे । अहा । यत् । द्यावः । असु-नीतिम् । अयन् । मध्वा । नः । अत्र । पितरा । शिशीताम्

10.12.5

किम् । स्वित् । नः । राजा । जगृहे । कत् । अस्य । अति । व्रतम् । चकृम । कः । वि । वेद । मि त्रः । चित् । हि । स्म । जुहुराणः । देवान् । श्लोकः । न । याताम् । अपि । वाजः । अस्ति

10.12.6

॥11॥.
-र्व्_7:6।12-
दुः-मन्तु । अत्र । अमृतस्य । नाम । स-लक्ष्मा । यत् । विषु-रूपा । भवाति । यमस्य । यः । मनवते । सु-मन्तु । अग्ने । तम् । ऋष्व । पाहि । अप्र-युच्छन्

10.12.7

यस्मिन् । देवाः । विदथे । मादयन्ते । विवस्वतः । सदने । धारयन्ते । सूर्ये । ज्योतिः । अदधुः । मासि । अक्तून् । परि । द्योतनिम् । चरतः । अजस्रा

10.12.8

यस्मिन् । देवाः । मन्मनि । सम्-चरन्ति । अपीच्ये । न । वयम् । अस्य । विद्म । मित्रः । नः । अत्र । अदितिः । अनागान् । सविता । देवः । वरुणाय । वोचत्

10.12.9

श्रुधि । नः । अग्ने । सदने । सध-स्थे । युक्ष्व । रथम् । अमृतस्य । द्रवित्नुम् । आ । नः । वह । रोदसी इति । देवपुत्रेइतिदेव-पुत्रे । माकिः । देवानाम् । अप । भूः । इह । स्याः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc