ऋग्वेदसंहिता, पदपाठ · अध्याय 10.128
॥14॥.
-र्व्_8:7।15-
(र्व्_10,128)
मम । अग्ने । वर्चः । वि-हवेषु । अस्तु । वयम् । त्वा । इन्धानाः । तन्वम् । पुषेम । मह्यम् । नमन्ताम् । प्र-दिशः । चतस्रः । त्वया । अधि-अक्षेण । पृतनाः । जयेम
मम । देवाः । वि-हवे । सन्तु । सर्वे । इन्द्र-वन्तः । मरुतः । विष्णुः । अग्निः । मम । अन्तरिक्षम् । उरु-लोकम् । अस्तु । मह्यम् । वातः । पवताम् । कामे । अस्मिन्
मयि । देवाः । द्रविणम् । आ । यजन्ताम् । मयि । आशीः । अस्तु । मयि । देव-हूतिः । दैव्याः । होतारः । वनुषन्त । पूर्वे । अरिष्टाः । स्याम । तन्वा । सु-वीराः
मह्यम् । यजन्तु । मम । यानि । हव्या । आकूतिः । सत्या । मनसः । मे । अस्तु । एनः । मा । नि । गाम् । कतमत् । चन । अहम् । विश्वे । देवासः । अधि । वोचत । नः
देवीः । षट् । उर्वीः । उरु । नः । कृणोत । विश्वे । देवासः । इह । वीरयध्वम् । मा । हास्महि । प्र-जया । मा । तनूभिः । मा । रधाम । द्विषते । सोम । राजन्
॥15॥.
-र्व्_8:7।16-
अग्ने । मन्युम् । प्रति-नुदन् । परेषाम् । अदब्धः । गोपाः । परि । पाहि । नः । त्वम् । प्रत्यञ्चः । यन्तु । नि-गुतः । पुनरिति । ते । अमा । एषाम् । चित्तम् । प्र-बुधाम् । नेशत्
धाता । धातॄणाम् । भुवनस्य । यः । पतिः । देवम् । त्रातारम् । अभिमाति-सहम् । इमम् । यज्ञम् । अश्विना । उभा । बृहस्पतिः । देवाः । पान्तु । यजमानम् । नि-अर्थात्
उरु-व्यचाः । नः । महिषः । शर्म । यंसत् । अस्मिन् । हवे । पुरु-हूतः । पुरु-क्षुः । सः । नः । प्र-जायै । हरि-अश्व । मृळय । इन्द्र । मा । नः । रिरिषः । मा । परा । दाः
ये । नः । स-पत्नाः । अप । ते । भवन्तु । इन्द्राग्नि-भ्याम् । अव । बाधामहे । तान् । वसवः । रुद्राः । आदित्याः । उपरि-स्पृशम् । मा । उग्रम् । चेत्तारम् । अधि-राजम् । अक्रन्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0