ऋग्वेदसंहिता, पदपाठ · अध्याय 10.127
॥13॥.
-र्व्_8:7।14-
(र्व्_10,127)
रात्री । वि । अख्यत् । आयती । पुरु-त्रा । देवी । अक्ष-भिः । विश्वाः । अधि । श्रियः । अधि त
आ । उरु । अप्राः । अमर्त्याः । नि-वतः । देवी । उत्-वतः । ज्योतिषा । बाधते । तमः
निः । ओं इति । स्वसारम् । अकृत । उषसम् । देवी । आयती । अप । इत् । ओं इति । हासते । तमः
सा । नः । अद्य । यस्याः । वयम् । नि । ते । यामन् । अविक्ष्महि । वृक्षे । न । व्चसतिम् । वयः
नि । ग्रामासः । अविक्षत । नि । पत्-वन्तः । नि । पक्षिणः । नि । श्येनासः । चित् । अर्थिनः
यवय । वृक्यम् । वृकम् । यवय । स्तेनम् । ऊर्म्ये । अथ । नः । सु-तरा । भव
उप । मा । पेपिशत् । तमः । कृष्णम् । वि-अक्तम् । अस्थित । उषः । ऋणा-इव । यातय
उप । ते । गाः-इव । अकरम् । वृणीष्व । दुहितः । दिवः । रात्रि । स्तोमम् । न । जिग्युषे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0