भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.126

10.126.1

॥12॥.
-र्व्_8:7।13-
(र्व्_10,126)
न । तम् । अंहः । न । दुः-इतम् । देवासः । अष्ट । मर्त्यम् । स-जोषसः । यम् । अर्यमा । मित्रः । नयन्ति । वरुणः । अति । द्विषः

10.126.2

तत् । हि । वयम् । वृणीमहे । वरुण । मित्र । अर्यमन् । येन । निः । अंहसः । यूयम् । पाथ । नेथ । च । मर्त्यम् । अति । द्विषः

10.126.3

ते । नूनम् । नः । अयम् । ऊतये । वरुणः । मित्रः । अर्यमा । नयिष्ठाः । ओं इति । नः । नेषणि । पर्षिष्ठाः । ओं इति । नः । पर्षणि । अति । द्विषः

10.126.4

यूयम् । विश्वम् । परि । पाथ । वरुणः । मित्रः । अर्यमा । युष्माकम् । शर्मणि । प्र् इये । स्याम । सु-प्रनीतयः । अति । द्विषः

10.126.5

आदित्यासः । अति । स्रिधः । वरुणः । मित्रः । अर्यमा । उग्रम् । मरुत्-भिः । रुद्रम् । हुवेम । इन्द्रम् । अग्निम् । स्वस्तये । अति । द्विषः

10.126.6

नेतारः । ओं इति । सु । नः । तिरः । वरुणः । मित्रः । अर्यमा । अति । विश्वानि । दुः-इता । राजानः । चर्षणीनाम् । अति । द्विषः

10.126.7

शुनम् । अस्मभ्यम् । ऊतये । वरुणः । मित्रः । अर्यमा । शर्म । यच्छन्तु । स-प्रथः । आदित्यासः । यत् । ईमहे । अति । द्विषः

10.126.8

यथा । ह । त्यत् । वसवः । गौर्यम् । चित् । पदि । सिताम् । अमुञ्चत । यजत्राः । एवो इति । सु । अस्मत् । मुञ्चत । वि । अंहः । प्र । तारि । अग्ने । प्र-तरम् । नः । आयुः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc