भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.125

10.125.1

॥10॥.
-र्व्_8:7।11-
(र्व्_10,125)
अहम् । रुद्रेभिः । वसु-भिः । चरामि । अहम् । आदित्यैः । उत । विश्व-देवैः । अहम् । मित्रावरुणा । उभा । बिभर्मि । अहम् । इन्द्राग्नी इति । अहम् । अश्विना । उभा

10.125.2

अहम् । सोमम् । आहनसम् । बिभर्मि । अहम् । त्वष्टारम् । उत । पूषणम् । भगम् । अहम् । दधामि । द्रविणम् । हविष्मते । सुप्र-अव्ये । यजमानाय । सुन्वते

10.125.3

अहम् । राष्ट्री । सम्-गमनी । वसूनाम् । चिकितुषी । प्रथमा । यज्ञियानाम् । ताम् । मा । देवाः । वि । अदधुः । पुरु-त्रा । भूरि-स्थात्राम् । भूरि । आवेशयन्तीम्

10.125.4

मया । सः । अन्नम् । अत्ति । यः । वि-पश्यति । यः । प्राणिति । यः । ईम् । शृणोति । उक्तम् । अमन्तवः । माम् । ते । उप । क्षियन्ति । श्रुधि । श्रुत । श्रद्धि-वम् । ते । वदाम् इ

10.125.5

अहम् । एव । स्वयम् । इदम् । वदामि । जुष्टम् । देवेभिः । उत । मानुषेभिः । यम् । कामये । तम्-तम् । उग्रम् । कृणोमि । तम् । ब्रह्माणम् । तम् । ऋषिम् । तम् । सु-मेधाम्

10.125.6

॥11॥.
-र्व्_8:7।12-
अहम् । रुद्राय । धनुः । आ । तनोमि । ब्रह्म-द्विषे । शरवे । हन्तवै । ओं इति । अहम् । जनाय । स-मदम् । कृणोमि । अहम् । द्यावापृथिवी इति । आ । विवेश

10.125.7

अहम् । सुवे । पितरम् । अस्य । मूर्धन् । मम । योनिः । अप्-सु । अन्तरिति । समुद्रे । ततः । वि । तिष्ठे । भुवना । अनु । विश्वा । उत । अमूम् । द्याम् । वर्ष्मणा । उप । स्पृशामि

10.125.8

अहम् । एव । वातः-इव । प्र । वामि । आरभमाणा । भुवनानि । विश्वा । परः । दिवा । परः । एना । पृथिव्या । एतावती । महिना । सम् । बभूव

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc