भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.124

10.124.1

॥8॥.
-र्व्_8:7।9-
(र्व्_10,124)
इमम् । नः । अग्ने । उप । यज्ञम् । आ । इहि । पञ्च-यामम् । त्रि-वृतम् । सप्त-तन्तुम् । असः । हव्य-वाट् । उत । नः । पुरः-गाः । ज्योक् । एव । दीर्घम् । तमः । आ । अशयिष्ठाः

10.124.2

अदेवात् । देवः । प्र-चता । गुहा । यन् । प्र-पश्यमानः । अमृत-त्वम् । एमि । शि वम् । यत् । सन्तम् । अशिवः । जहामि । स्वात् । सख्यात् । अरणीम् । नाभिम् । एमि

10.124.3

पश्यन् । अन्यस्याः । अतिथिम् । वयायाः । ऋतस्य । धाम । वि । मिमे । पुरूणि । शंसामि । पित्रे । असुराय । शेवम् । अयज्ञियात् । यज्ञियम् । भागम् । एमि

10.124.4

बह्वीः । समाः । अकरम् । अन्तः । अस्मिन् । इन्द्रम् । वृणानः । पितरम् । जहामि । अग्निः । सोमः । वरुणः । ते । च्यवन्ते । परि-आवर्त । राष्ट्रम् । तत् । अवामि । आयन्

10.124.5

निः-मायाः । ओं इति । त्ये । असुराः । अभूवन् । त्वम् । च । मा । वरुण । कामयासे । ऋतेन । राजन् । अनृतम् । वि-विञ्चन् । मम । राष्ट्रस्य । अधि-पत्यम् । आ । इहि

10.124.6

॥9॥.
-र्व्_8:7।10-
इदम् । स्वः । इदम् । इत् । आस । वामम् । अयम् । प्र-काशः । उरु । अन्तरिक्षम् । हनाव । वृत्रम् । निः-एहि । सोम । हविः । त्वा । सन्तम् । हविषा । यजाम

10.124.7

कविः । कवि-त्वा । दिवि । रूपम् । आ । असजत् । अप्र-भूती । वरुणः । निः । अपः । सृजत् । क्षेमम् । कृण्वानाः । जनयः । न । सिन्धवः । ताः । अस्य । वर्णम् । शुचयः । भरिभ्रति

10.124.8

ताः । अस्य । ज्येष्ठम् । इन्द्रियम् । सचन्ते । ताः । ईम् । आ । क्षेति । स्वधया । मदन्तीः । ताः । ईम् । विशः । न । राजानम् । वृणानाः । बीभत्सुवः । अप । वृत्रात् । अतिष्ठन्

10.124.9

बीभत्सूनाम् । स-युजम् । हंसम् । आहुः । अपाम् । दिव्यानाम् । सख्ये । चरन्तम् । अनु-स्तुभम् । अनु । चर्चूर्यमाणम् । इन्द्रम् । नि । चिक्युः । कवयः । मनीषा

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc