ऋग्वेदसंहिता, पदपाठ · अध्याय 10.123
॥6॥.
-र्व्_8:7।7-
(र्व्_10,123)
अयम् । वेनः । चोदयत् । पृश्नि-गर्भाः । ज्योतिः-जरायुः । रजसः । वि-माने । इमम् । अपाम् । सम्-गमे । सूर्यस्य । शिशुम् । न । विप्राः । मति-भिः । रिहन्ति
समुद्रात् । ऊर्मिम् । उत् । इयर्ति । वेनः । नभः-जाः । पृष्ठम् । हर्यतस्य । दर्शि । ऋतस्य । सानौ । अधि । विष्टपि । भ्राट् । समानम् । योनिम् । अभि । आनूषत । व्राः
समानम् । पूर्वीः । अभि । ववशानाः । तिष्ठन् । वत्सस्य । मातरः । स-नीळाः । ऋतस्य । सानौ । अधि । चक्रमाणाः । रिहन्ति । मध्वः । अमृतस्य । वाणीः
जानन्तः । रूपम् । अकृपन्त । विप्राः । मृगस्य । घोषम् । महिषस्य । हि । ग्मन् । ऋतेन । यन्तः । अधि । सिन्धुम् । अस्थुः । विदत् । गन्धर्वः । अमृतानि । नाम
अप्सराः । जारम् । उप-सिष्मियाणा । योषा । बिभर्ति । परमे । वि-ओमन् । चरत् । प्रि यस्य । योनिषु । प्रियः । सन् । सीदत् । पक्षे । हिरण्यये । सः । वेनः
॥7॥.
-र्व्_8:7।8-
नाके । सु-पर्णम् । उप । यत् । पतन्तम् । हृदा । वेनन्तः । अभि । अचक्षत । त्वा । हिरण्य-पक्षम् । वरुणस्य । दूतम् । यमस्य । योनौ । शकुनम् । भुरण्युम्
ऊर्ध्वः । गन्धर्वः । अधि । नाके । अस्थात् । प्रत्यङ् । चित्रा । बिभ्रत् । अस्य । आयुधानि । वसानः । अत्कम् । सु-रभिम् । दृशे । कम् । स्वः । ण । नाम । जनत । प्रियाणि
द्रप्सः । समुद्रम् । अभि । यत् । जिगाति । पश्यन् । गृध्रस्य । चक्षसा । वि-धमर्न् । भानुः । शुक्रेण । शोचिषा । चकानः । तृतीये । चक्रे । रजसि । प्रियाणि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0