भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.122

10.122.1

॥4॥.
-र्व्_8:7।5-
(र्व्_10,122)
वसुम् । न । चित्र-महसम् । गृणीषे । वामम् । शेवम् । अतिथिम् । अद्रि-षेण्यम् । सः । रासते । शुरुधः । विश्व-धायसः । अग्निः । होता । गृह-पतिः । सु-वीर्यम्

10.122.2

जुषाणः । अग्ने । प्रति । हर्य । मे । वचः । विश्वानि । विद्वान् । वयुनानि । सुक्रतो इतिसु-क्रतो । घृत-निर्निक् । ब्रह्मणे । गातुम् । आ । ईरय । तव । देवाः । अजनयन् । अनु । व्रतम्

10.122.3

सप्त । धामानि । परि-यन् । अमर्त्यः । दाशत् । दाशुषे । सु-कृते । ममहस्व । सु-वीरेण । रयिणा । अग्ने । सु-आभुवा । यः । ते । आनट् । सम्-इधा । तम् । जुषस्व

10.122.4

यज्ञस्य । केतुम् । प्रथमम् । पुरः-हितम् । हविष्मन्तः । ईळते । सप्त । वाजिनम् । शृण्वन्तम् । अग्निम् । घृत-पृष्ठम् । उक्षणम् । पृणन्तम् । देवम् । पृणते । सु-वीर्यम्

10.122.5

त्वम् । दूतः । प्रथमः । वरेण्यः । सः । हूयमानः । अमृताय । मत्स्व । त्वाम् । मर्जयन् । मरुतः । दाशुषः । गृहे । त्वाम् । स्तोमेभिः । भृगवः । वि । रिरुचुः

10.122.6

॥5॥.
-र्व्_8:7।6-
इषम् । दुहन् । सु-दुघाम् । विश्व-धायसम् । यज्ञ-प्रिये । यजमानाय । सुक्रतो इतिसु-क्रतो । अग्रे । घृत-स्नुः । त्रिः । ऋतानि । दीद्यत् । वर्तिः । यज्ञम् । परि-यन् । सुक्रतु-यसे

10.122.7

त्वाम् । इत् । अस्याः । उषसः । वि-उष्टिषु । दूतम् । कृण्वानाः । अयजन्त । मानुषाः । त्वाम् । देवाः । महयाय्याय । ववृधुः । आज्यम् । अग्ने । नि-मृजन्तः । अध्वरे

10.122.8

नि । त्वा । वसिष्ठाः । अह्वन्त । वाजिनम् । गृणन्तः । अग्ने । विदथेषु । वेधसः । रायः । पोषम् । यजमानेषु । धारय । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc