ऋग्वेदसंहिता, पदपाठ · अध्याय 10.121
॥2॥.
-र्व्_8:7।3-
(र्व्_10,121)
हिरण्य-गर्भः । सम् । अवर्तत । अग्रे । भूतस्य । जातः । पतिः । एकः । आसीत् । सः । दाधार । पृथिवीम् । द्याम् । उत । इमाम् । कस्मै । देवाय । हविषा । विधेम
यः । आत्म-दाः । बल-दाः । यस्य । विश्वे । उप-आसते । प्र-शिषम् । यस्य । देवाः । यस्य । छायाम् । ऋतम् । यस्य । मृत्युः । कस्मै । देवाय । हविषा । विधेम
यः । प्राणतः । नि-मिषतः । महि-त्वा । एकः । इत् । राजा । जगतः । बभूव । यः । ईशे । अस्य । द्वि-पदः । चतुः-पदः । कस्मै । देवाय । हविषा । विधेम
यस्य । इमे । हिम-वन्तः । महि-त्वा । यस्य । समुद्रम् । रसया । सह । आहुः । यस्य । इमाः । प्र-दिशः । यस्य । बाहू इति । कस्मै । देवाय । हविषा । विधेम
येन । द्यौः । उग्रा । पृथिवी । च । दृळ्हा । येन । स्वर् इति स्वः । स्तभितम् । येन । नाकः । यः । अन्तरिक्षे । रजसः । वि-मानः । कस्मै । देवाय । हविषा । विधेम
॥3॥.
-र्व्_8:7।4-
यम् । क्रन्दसी इति । अवसा । तस्तभाने इति । अभि । ऐक्षेताम् । मनसा । रेजमाने । यत्र । अधि । सूरः । उत्-इतः । वि-भाति । कस्मै । देवाय । हविषा । विधेम
आपः । ह । यत् । बृहतीः । विश्वम् । आयन् । गर्भम् । दधानाः । जनयन्तीः । अग्न् इम् । ततः । देवानाम् । सम् । अवर्तत । असुः । एकः । कस्मै । देवाय । हविषा । विधेम
यः । चित् । आपः । महिना । परि-अपश्यत् । दक्षम् । दधानाः । जनयन्तीः । यज्ञम् । यः । देवेषु । अधि । देवः । एकः । आसीत् । कस्मै । देवाय । हविषा । विधेम
मा । नः । हिंसीत् । जनिता । यः । पृथिव्याः । यः । वा । दिवम् । सत्य-धर्मा । जजान । यः । च । अपः । चन्द्राः । बृहतीः । जजान । कस्मै । देवाय । हविषा । विधेम
प्रजापतेन त्वद् एतान्य् अन्यो विश्वाजतानिपरिता बभूव । यत्कामास् ते जुहुमस् तन् नोअस्तु वयं स्यामपतयो रयीणाम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0