भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.120

10.120.1

॥27॥.
-र्व्_8:7।1-
(र्व्_10,120)
तत् । इत् । आस । भुवनेषु । ज्येष्ठम् । यतः । जज्ञे । उग्रः । त्वेष-नृम्णः । सद्यः । जज्ञानः । नि । रिणाति । शत्रून् । अनु । यम् । विश्वे । मदन्ति । ऊमाः

10.120.2

ववृधानः । शवसा । भूरि-ओजाः । शत्रुः । दासाय । भियसम् । दधाति । अवि-अनत् । च । वि-अनत् । च । सस्नि । सम् । ते । नवन्त । प्र-भृता । मदेषु

10.120.3

त्वे इति । क्रतुम् । अपि । वृञ्जन्ति । विश्वे । द्विः । यत् । एते । त्रिः । भवन्ति । ऊमाः । स्वादोः । स्वादीयः । स्वादुना । सृज । सम् । अदः । सु । मधु । मधुना । अभि । योधीः

10.120.4

इति । चित् । हि । त्वा । धना । जयन्तम् । मदे--मदे । अनु-मदन्ति । विप्राः । ओजीयः । धृष्णो इति । स्थिरम् । आ । तनुष्व । मा । त्वा । दभन् । यातु-धानाः । दुः-एवाः

10.120.5

त्वया । वयम् । शाशद्महे । रणेषु । प्र-पश्यन्तः । युधेन्यानि । भूरि । चोदयामि । ते । आयुधा । वचः-भिः । सम् । ते । शिशामि । ब्रह्मणा । वयांसि

10.120.6

॥1॥.
-र्व्_8:7।2-
स्तुषेय्यम् । पुरु-वर्पसम् । ऋभ्वम् । इन-तमम् । आप्त्यम् । आप्त्यानाम् । आ । दर्षते । शवसा । सप्त । दानून् । प्र । साक्षते । प्रति-मानानि । भूरि

10.120.7

नि । तत् । दधिषे । अवरम् । परम् । च । यस्मिन् । आविथ । अवसा । दुरोणे । आ । मातरा । स्थापयसे । जिगत्नू इति । अतः । इनोषि । कर्वरा । पुरूणि

10.120.8

इमा । ब्रह्म । बृहत्-दिवः । विवक्ति । इन्द्राय । शूषम् । अग्रियः । स्वः-साः । महः । गोत्रस्य । क्षयति । स्व-राजः । दुरः । च । विश्वाः । अवृणोत् । अप । स्वाः

10.120.9

एव । महान् । बृहत्-दिवः । अथर्वा । अवोचत् । स्वाम् । तन्वम् । इन्द्रम् । एव । स्वसारः । मातरिभ्वरीः । अरिप्राः । हिन्वन्ति । च । शवसा । वर्धयन्ति च

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc