ऋग्वेदसंहिता, पदपाठ · अध्याय 10.119
॥25॥.
-र्व्_8:6।26-
(र्व्_10,119)
इति । वै । इति । मे । मनः । गाम् । अश्वम् । सनुयाम् । इति । कुवित् । सोमस्य । अपाम् । इति
प्र । वाताः-इव । दोधतः । उत् । मा । पीताः । अयंसत । कुवित् । सोमस्य । अपाम् । इति
उत् । मा । पीताः । अयंसत । रथम् । अश्वाः-इव । आशवः । कुवित् । सोमस्य । अपाम् । इति
उप । मा । मतिः । अस्थित । वाश्रा । पुत्रम्-इव । प्रियम् । कुवित् । सोमस्य । अपाम् । इति
अहम् । तष्टाइव । वन्धुरम् । परि । अचामि । हृदा । मतिम् । कुवित् । सोमस्य । अपाम् । इति
नहि । मे । अक्षिपत् । चन । अच्छान्त्सुः । पञ्च । कृष्टयः । कुवित् । सोमस्य । अपाम् । इति
॥26॥.
-र्व्_8:6।27-
नहि । मे । रोदसी इति । उभे इति । अन्यम् । पक्षम् । चन । प्रति । कुवित् । सोमस्य । अपाम् । इति
अभि । द्याम् । महिना । भुवम् । अभि । इमाम् । पृथिवीम् । महीम् । कुवित् । सोमस्य । अपाम् । इति
हन्त । अहम् । पृथिवीम् । इमाम् । नि । दधानि । इह । वा । इह । वा । कुवित् । सोमस्य । अपाम् । इति
ओषम् । इत् । पृथिवीम् । अहम् । जङ्घनानि । इह । वा । इह । वा । कुवित् । सोमस्य । अपाम् । इति
दिवि । मे । अन्यः । पक्षः । अधः । अन्यम् । अचीकृषम् । कुवित् । सोमस्य । अपाम् । इति
अहम् । अस्मि । महामहः । । अभि-नभ्यम् । उत्-आषितः । कुवित् । सोमस्य । अपाम् । इति
गृहः । यामि । अरम्-कृतः । देवेभ्यः । हव्य-वाहनः । कुवित् । सोमस्य । अपाम् । इति
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0