भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.11

10.11.1

॥8॥.
-र्व्_7:6।9-
(र्व्_10,11)
वृषा । वृष्णे । दुदुहे । दोहसा । दिवः । पयांसि । यह्वः । अदितेः । अदाभ्यः । विश्वम् । सः । वेद । वरुणः । यथा । धिया । सः । यज्ञियः । यजतु । यज्ञियान् । ऋतून्

10.11.2

रपत् । गन्धर्वीः । अप्या । च । योषणा । नदस्य । नादे । परि । पातु । मे । मनः । इष्टस्य । मध्ये । अदितिः । नि । धातु । नः । भ्राता । नः । ज्येष्ठः । प्रथमः । व् इ । वोचति

10.11.3

सो इति । चित् । नु । भद्रा । क्षु-मती । यशस्वती । उषाः । उवास । मनवे । स्वः-वती । यत् । ईम् । उशन्तम् । उशताम् । अनु । ऋतुम् । अग्निम् । होतारम् । विदथाय । जीजनन्

10.11.4

अध । त्यम् । द्रप्सम् । विभ्वम् । वि-चक्षणम् । विः । आ । अभरत् । इषितः । श्येनः । अध्वरे । यदि । विशः । वृणते । दस्मम् । आर्याः । अग्निम् । होतारम् । अध । धीः । अजायत

10.11.5

सदा । असि । रण्वः । यवसाइव । पुष्यते । होत्राभिः । अग्ने । मनुषः । सु-अध्वरः । विप्रस्य । वा । यत् । शशमानः । उक्थ्यम् । वाजम् । सस-वान् । उप-यासि । भूरि-भिः

10.11.6

॥9॥.
-र्व्_7:6।10-
उत् । ईरय । पितरा । जारः । आ । भगम् । इयक्षति । हर्यतः । हृत्तः । इष्यति । व् इवक्ति । वह्निः । सु-अपस्यते । मखः । तविष्यते । असुरः । वेपते । मती

10.11.7

यः । ते । अग्ने । सु-मतिम् । मर्तः । अक्षत् । सहसः । सूनो इति । अति । सः । प्र । शृण्वे । इषम् । दधानः । वहमानः । अश्वैः । आ । सः । द्यु-मान् । अम-वान् । भूषति । द्यून्

10.11.8

यत् । अग्ने । एषा । सम्-इतिः । भवाति । देवी । देवेषु । यजता । यजत्र । रत्ना । च । यत् । वि-भजासि । स्वधावः । भागम् । नः । अत्र । वसु-मन्तम् । वीतात्

10.11.9

श्रुधि । नः । अग्ने । सदने । सध-स्थे । युक्ष्व । रथम् । अमृतस्य । द्रवित्नुम् । आ । नः । वह । रोदसी इति । देवपुत्रेइतिदेव-पुत्रे । माकिः । देवानाम् । अप । भूः । इह । स्याः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc