भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.118

10.118.1

॥23॥.
-र्व्_8:6।24-
(र्व्_10,118)
अग्ने । हंसि । नि । अत्रिणम् । दीद्यत् । मर्त्येषु । आ । स्वे । क्षये । शुचि-व्रत

10.118.2

उत् । तिष्ठसि । सु-आहुतः । घृतानि । प्रति । मोदसे । यत् । त्वा । स्रुचः । सम्-अस्थिरन्

10.118.3

सः । आहुतः । वि । रोचते । अग्निः । ईळेन्यः । गिरा । स्रुचा । प्रतीकम् । अज्यते

10.118.4

घृतेन । अग्निः । सम् । अज्यते । मधु-प्रतीकः । आहुतः । रोचमानः । विभावसुः

10.118.5

जरमाणः । सम् । इध्यसे । देवेभ्यः । हव्य-वाहन । तम् । त्वा । हवन्त । मर्त्याः

10.118.6

॥24॥.
-र्व्_8:6।25-
तम् । मर्ताः । अमर्त्यम् । घृतेन । अग्निम् । सपर्यत । अदाभ्यम् । गृह-पतिम्

10.118.7

अदाभ्येन । शोचिषा । अग्ने । रक्षः । त्वम् । दह । गोपाः । ऋतस्य । दीदिहि

10.118.8

सः । त्वम् । अग्ने । प्रतीकेन । प्रति । ओष । यातु-धान्यः । उरु-क्षयेषु । दीद्यत्

10.118.9

तम् । त्वा । गीः-भिः । उरु-क्षयाः । हव्य-वाहम् । सम् । ईधिरे । यजिष्ठम् । मानुषे । जने

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc