ऋग्वेदसंहिता, पदपाठ · अध्याय 10.117
॥21॥.
-र्व्_8:6।22-
(र्व्_10,117)
न । वै । ओं इति । देवाः । क्षुधम् । इत् । वधम् । ददुः । उत । आशितम् । उप । गच्छन्ति । मृत्यवः । उतो इति । रयिः । पृणतः । न । उप । दस्यति । उत । अपृणन् । मर्डितारम् । न । विन्दते
यः । आध्राय । चकमानाय । पित्वः । अन्न-वान् । सन् । रफिताय । उप-जग्मुषे । स्थिरम् । मनः । कृणुते । सेवते । पुरा । उतो इति । चित् । सः । मर्डितारम् । न । विन्दते
सः । इत् । भोजः । यः । गृहवे । ददाति । अन्न-कामाय । चरते । कृशाय । अरम् । अस्मै । भवति । याम-हूतौ । उत । अपरीषु । कृणुते । सखायम्
न । सः । सखा । यः । न । ददाति । सख्ये । सचाभुवे । सचमानाय । पित्वः । अप । अस्मात् । प्र । इयात् । न । तत् । ओकः । अस्ति । पृणन्तम् । अन्यम् । अरणम् । चित् । इच्छेत्
पृणीयात् । इत् । नाधमानाय । तव्यान् । द्राघीयांसम् । अनु । पश्येत । पन्थाम् । ओ इति । हि । वर्तन्ते । रथ्याइव । चक्रा । अन्यम्-अन्यम् । उप । तिष्ठन्त । रायः
॥22॥.
-र्व्_8:6।23-
मोघम् । अन्नम् । विन्दते । अप्र-चेताः । सत्यम् । ब्रवीमि । वधः । इत् । सः । तस्य । न । अर्यमणम् । पुष्यति । नो इति । सखायम् । केवल-अघः । भवति । केवल-आदी
कृषन् । इत् । फालः । आशितम् । कृणोति । यन् । अध्वानम् । अप । वृङ्क्ते । चरित्रैः । वदन् । ब्रह्मा । अवदतः । वनीयान् । पृणन् । आपिः । अपृणन्तम् । अभि । स्यात्
एक-पात् । भूयः । द्वि-पदः । वि । चक्रमे । द्वि-पात् । त्रि-पादम् । अभि । एति । पश्चात् । चतुः-पात् । एति । द्वि-पदाम् । अभि-स्वरे । सम्-पश्यन् । पङ्क्तीः । उप-तिष्ठमानः
समौ । चित् । हस्तौ । न । समम् । विविष्टः । सम्-मातरा । चित् । न । समम् । दुहातेइति । यमयोः । चित् । न । समा । वीर्याणि । ज्ञाती इति । चित् । सन्तौ । न । समम् । पृणीतः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0