भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.116

10.116.1

॥19॥.
-र्व्_8:6।20-
(र्व्_10,116)
पिब । सोमम् । महते । इन्द्रियाय । पिब । वृत्राय । हन्तवे । शविष्ठ । पिब । राये । शवसे । हूयमानः । पिब । मध्वः । तृपत् । इन्द्र । आ । वृषस्व

10.116.2

अस्य । पिब । क्षु-मतः । प्र-स्थितस्य । इन्द्र । सोमस्य । वरम् । आ । सुतस्य । स्वस्ति-दाः । मनसा । मादयस्व । अर्वाचीनः । रेवते । सौभगाय

10.116.3

ममत्तु । त्वा । दिव्यः । सोमः । इन्द्र । ममत्तु । यः । सूयते । पार्थिवेषु । ममत्तु । येन । वरि-वः । चकर्थ । ममत्तु । येन । नि-रिणासि । शत्रून्

10.116.4

आ । द्वि-बर्हाः । अमिनः । यातु । इन्द्रः । वृषा । हरि-भ्याम् । परि-सिक्तम् । अन्धः । गवि । आ । सुतस्य । प्र-भृतस्य । मध्वः । सत्रा । खेदाम् । अरुश-हा । वृषस्व

10.116.5

नि । तिग्मानि । भ्राशयन् । भ्राश्यानि । अव । स्थिरा । तनुहि । यातु-जूनाम् । उग्राय । ते । सहः । बलम् । ददामि । प्रति-इत्य । शत्रून् । वि-गदेषु । वृश्च

10.116.6

॥20॥.
-र्व्_8:6।21-
वि । अर्यः । इन्द्र । तनुहि । श्रवांसि । ओजः । स्थिराइव । धन्वनः । अभि-मातीः । अस्मद्र्यक् । ववृधानः । सहः-भिः । अनि-भृष्टः । तन्वम् । ववृधस्व

10.116.7

इदम् । हविः । मघ-वन् । तुभ्यम् । रातम् । प्रति । सम्-राट् । अहृणानः । गृभाय । तुभ्यम् । सुतः । मघ-वन् । तुभ्यम् । पक्वः । अद्धि । इन्द्र । पिब । च । प्र-स्थ् इतस्य

10.116.8

अद्धि । इन्द्र । प्र-स्थिता । इमा । हवींषि । चनः । दधिष्व । पचता । उत । सोमम् । प्रयस्वन्तः । प्रति । हर्यामसि । त्वा । सत्याः । सन्तु । यजमानस्य । कामाः

10.116.9

प्र । इन्द्राग्नि-भ्याम् । सु-वचस्याम् । इयर्मि । सिन्धौ-इव । प्र । ईरयम् । नावम् । अर्कैः । अयाः-इव । परि । चरन्ति । देवाः । ये । अस्मभ्यम् । धन-दाः । उत्-भिदः । च

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc