ऋग्वेदसंहिता, पदपाठ · अध्याय 10.115
॥17॥.
-र्व्_8:6।18-
(र्व्_10,115)
चित्रः । इत् । शिशोः । तरुणस्य । वक्षथः । न । यः । मातरौ । अपि-एति । धातवे । अनूधाः । यदि । जीजनत् । अधा । च । नु । ववक्ष । सद्यः । महि । दूत्यम् । चरन्
अग्निः । ह । नाम । धायि । दन् । अपः-तमः । सम् । यः । वना । युवते । भस्मना । दता । अभि-प्रमुरा । जुह्वा । सु-अध्वरः । इनः । न । प्रोथमानः । यवसे । वृषा
तम् । वः । विम् । न । द्रु-सदम् । देवम् । अन्धसः । इन्दुम् । प्रोथन्तम् । प्र-वपन्तम् । अर्णवम् । आसा । वह्निम् । न । शोचिषा । वि-रप्शिनम् । महि-व्रतम् । न । सरजन्तम् । अध्वनः
वि । यस्य । ते । ज्रयसानस्य । अजर । धक्षोः । न । वाताः । परि । सन्ति । अच्युताः । आ । रण्वासः । युयुधयः । न । सत्वनम् । त्रितम् । नशन्त । प्र । शिषन्तः । इष्टये
सः । इत् । अग्निः । कण्व-तमः । कण्व-सखा । अर्यः । परस्य । अन्तरस्य । तरुषः । अग्निः । पातु । गृणतः । अग्निः । सूरीन् । अग्निः । ददातु । तेषाम् । अवः । नः
॥18॥.
-र्व्_8:6।19-
वाजिन्-तमाय । सह्यसे । सु-पित्र्य । तृषु । च्यवानः । अनु । जात-वेदसे । अनुद्रे । चित् । यः । धृषता । वरम् । सते । महिन्-तमाय । धन्वना । इत् । अविष्यते
एव । अग्निः । मर्तैः । सह । सूरि-भिः । वसुः । स्तवे । सहसः । सूनरः । नृ-भिः । मित्रासः । न । ये । सु-धिताः । ऋत-यवः । द्यावः । न । द्युम्नैः । अभि । सन्ति । मानुषान्
ऊर्जः । नपात् । सहसावन् । इति । त्वा । उप-स्तुतस्य । वन्दते । वृषा । वाक् । त्वाम् । स्तोषाम । त्वया । सु-वीराः । द्राघीयः । आयुः । प्र-तरम् । दधानाः
इति । त्वा । अग्ने । वृष्टि-हव्यस्य । पुत्राः । उप-स्तुतासः । ऋषयः । अवोचन् । तान् । च । पाहि । गृणतः । च । सूरीन् । वषट् । वषट् । इति । ऊर्ध्वासः । अनक्षन् । नमः । नमः । इति । ऊर्ध्वासः । अनक्षन्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0