ऋग्वेदसंहिता, पदपाठ · अध्याय 10.114
॥15॥.
-र्व्_8:6।16-
(र्व्_10,114)
घर्मा । सम्-अन्ता । त्रि-वृतम् । वि । आपतुः । तयोः । जुष्टिम् । मातरिश्वा । जगाम । दि वः । पयः । दिधिषाणाः । अवेषन् । विदुः । देवाः । सह-सामानम् । अर्कम्
तिस्रः । देष्ट्राय । निः-ऋतीः । उप । आसते । दीर्घ-श्रुतः । वि । हि । जानन्ति । वह्नयः । तासाम् । नि । चिक्युः । कवयः । नि-दानम् । परेषु । याः । गुह्येषु । व्रतेषु
चतुः-कपर्दा । युवतिः । सु-पेशाः । घृत-प्रतीका । वयुनानि । वस्ते । तस्याम् । सु-पर्णा । वृषणा । नि । सेदतुः । यत्र । देवाः । दधिरे । भाग-धेयम्
एकः । सु-पर्णः । सः । समुद्रम् । आ । विवेश । सः । इदम् । विश्वम् । भुवनम् । वि । चष्टे । तम् । पाकेन । मनसा । अपश्यम् । अन्तितः । तम् । माता । रेळ्हि । सः । ओं इति । रेळ्हि । मातरम्
सु-पर्णम् । विप्रा । कवयः । वचः-भिः । एकम् । सन्तम् । बहुधा । कल्पयन्ति । छन्दांसि । च । दधतः । अध्वरेषु । ग्रहान् । सोमस्य । मिमते । द्वादश
॥16॥.
-र्व्_8:6।17-
षट्-त्रिंशान् । च । चतुरः । कल्पयन्तः । छन्दांसि । च । दधतः । आद्वादशम् । यज्ञम् । वि-माय । कवयः । मनीषा । ऋक्-सामाभ्याम् । प्र । रथम् । वर्तयन्ति
चतुः-दश । अन्ये । महिमानः । अस्य । तम् । धीराः । वाचा । प्र । नयन्ति । सप्त । आप्नानम् । तीर्थम् । कः । इह । प्र । वोचत् । येन । पथा । प्र-पिबन्ते । सुतस्य
सहस्रधा । पञ्च-दशानि । उक्था । यावत् । द्यावापृथिवी इति । तावत् । इत् । तत् । सहस्रधा । महिमानः । सहस्रम् । यावत् । ब्रह्म । वि--स्थितम् । तावती । वाक्
कः । छन्दसाम् । योगम् । आ । वेद । धीरः । कः । धिष्ण्याम् । प्रति । वाचम् । पपाद । कम् । ऋत्विजाम् । अष्टमम् । शूरम् । आहुः । हरी इति । इन्द्रस्य । नि । चिकाय । कः । स्वित्
भूम्याः । अन्तम् । परि । एके । चरन्ति । रथस्य । धूः-सु । युक्तासः । अस्थुः । श्रमस्य । दायम् । वि । भजन्ति । एभ्यः । यदा । यमः । भवति । हर्म्ये । हितः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0