ऋग्वेदसंहिता, पदपाठ · अध्याय 10.113
॥13॥.
-र्व्_8:6।14-
(र्व्_10,113)
तम् । अस्य । द्यावापृथिवी इति । स-चेतसा । विश्वेभिः । देवैः । अनु । शुष्मम् । आवताम् । यत् । ऐत् । कृण्वानः । महिमानम् । इन्द्रियम् । पीत्वी । सोमस्य । क्रतु-मान् । अवर्धत
तम् । अस्य । विष्णुः । महिमानम् । ओजसा । अंशुम् । दधन्वान् । मधुनः । वि । रप्शते । देवेभिः । इन्द्रः । मघ-वा । सयाव-भिः । वृत्रम् । जघन्वान् । अभवत् । वरेण्यः
वृत्रेण । यत् । अहिना । बिभ्रत् । आयुधा । सम्-अस्थिथाः । युधये । शंसम् । आविदे । विश्वे । ते । अत्र । मरुतः । सह । त्मना । अवर्धन् । उग्र । महिमानम् । इन्द्रियम्
जज्ञानः । एव । वि । अबाधत । स्पृधः । प्र । अपश्यत् । वीरः । अभि । पैंस्यम् । रणम् । अवृश्चत् । अद्रिम् । अव । स-स्यदः । सृजत् । अस्तभ्नात् । नाकम् । सु-अपस्यया । पृथुम्
आत् । इन्द्रः । सत्रा । तविषीः । अपत्यत । वरीयः । द्यावापृथिवी इति । अबाधत । अव । अभरत् । धृषितः । वज्रम् । आयसम् । शेवम् । मित्राय । वरुणाय । दाशुषे
॥14॥.
-र्व्_8:6।15-
इन्द्रस्य । अत्र । तविषीभ्यः । वि-रप्शिनः । ऋघायतः । अरंहयन्त । मन्यवे । वृत्रम् । यत् । उग्रः । वि । अवृश्चत् । ओजसा । अपः । बिभ्रतम् । तमसा । परि-वृतम्
या । वीर्याणि । प्रथमानि । कर्त्वा । महि-त्वेभिः । यतमानौ । सम्-ईयतुः । ध्वान्तम् । तमः । अव । दध्वसे । हतः । इन्द्रः । मह्ना । पूर्व-हूतौ । अपत्यत
विश्वे । देवासः । अध । वृष्ण्यानि । ते । अवर्धयन् । सोम-वत्या । वचस्यया । रद्धम् । वृत्रम् । अहिम् । इन्द्रस्य । हन्मना । अग्निः । न । जम्भैः । तृषु । अन्नम् । आवयत्
भूरि । दक्षेभिः । वचनेभिः । ऋक्व-भिः । सख्येभिः । सख्यानि । प्र । वोचत । इन्द्रः । धुनिम् । च । चुमुरिम् । च । दम्भयन् । श्रद्धामनस्या । शृणुते । दभीतये
त्वम् । पुरूणि । आ । भर । सु-अश्व्या । येभिः । मंसै । नि-वचनानि । शंसन् । सु-गेभिः । विश्वा । दुः-इता । तरेम । विदः । सु । नः । उर्विया । गाधम् । अद्य
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0