ऋग्वेदसंहिता, पदपाठ · अध्याय 10.112
॥11॥.
-र्व्_8:6।12-
(र्व्_10,112)
इन्द्र । पिब । प्रति-कामम् । सुतस्य । प्रातः-सावः । तव । हि । पूर्व-पीतिः । हर्षस्व । हन्तवे । शूर । शत्रून् । उक्थेभिः । ते । वीर्या । प्र । ब्रवाम
यः । ते । रथः । मनसः । जवीयान् । आ । इन्द्र । तेन । सोम-पेयाय । याहि । तूयम् । आ । ते । हरयः । प्र । द्रवन्तु । येभिः । यासि । वृष-भिः । मन्दमानः
हरित्वता । वर्चसा । सूर्यस्य । श्रेष्ठैः । रूपैः । तन्वम् । स्पर्शयस्व । अस्माभिः । इन्द्र । सखि-भिः । हुवानः । सध्रीचीनः । मादयस्व । नि-सद्य
यस्य । त्यत् । ते । महिमानम् । मदेषु । इमे इति । मही इति । रोदसी इति । न । अविविक्ताम् । तत् । ओकः । आ । हरि-भिः । इन्द्र । युक्तैः । प्रियेभिः । याहि । प्र् इयम् । अन्नम् । अच्छ
यस्य । शश्वत् । पपि-वान् । इन्द्र । शत्रून् । अननु-कृत्या । रण्या । चकर्थ । सः । ते । पुरम्-धिम् । तविषीम् । इयर्ति । सः । ते । मदाय । सुतः । इन्द्र । सोमः
॥12॥.
-र्व्_8:6।13-
इदम् । ते । पात्रम् । सन-वित्तम् । इन्द्र । पिब । सोमम् । एना । शतक्रतो इतिशत-क्रतो । पूर्णः । आहावः । मदिरस्य । मध्वः । यम् । विश्वे । इत् । अभि--हर्यन्ति । देवाः
वि । हि । त्वाम् । इन्द्र । पुरुधा । जनासः । हित-प्रयसः । वृषभ । ह्वयन्ते । अस्माकम् । ते । मधुमत्-तमानि । इमा । भुवन् । सवना । तेषु । हर्य
प्र । ते । इन्द्र । पूर्व्याणि । प्र । नूनम् । वीर्या । वोचम् । प्रथमा । कृतानि । सतीन-मन्युः । अश्रथयः । अद्रिम् । सु-वेदनाम् । अकृणोः । ब्रह्मणे । गाम्
नि । सु । सीद । गण-पते । गणेषु । त्वाम् । आहुः । विप्र-तमम् । कवीनाम् । न । ऋते । त्वत् । क्रियते । किम् । चन । आरे । महाम् । अर्कम् । मघ-वन् । चित्रम् । अर्च
अभि-ख्या । नः । मघ-वन् । नाधमानान् । सखे । बोधि । वसु-पते । सखीनाम् । रणम् । कृधि । रण-कृत् । सत्य-शुष्म । अभक्ते । चित् । आ । भज । राये । अस्मान्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0